________________
संग्रह
धर्म- 131॥१॥ जीर्णे समुद्धते यावत्तावत्पुण्यं न नूतने । उपमर्दो महांस्तत्र, खचैत्यख्यातिधीरपि ॥२॥” तथा-"राया
अमचसिट्ठी, कोडंबीएवि देसणं काउं । जिपणे पुवाययगे, जिणकप्पी वावि कारवइ ॥१॥ जिणभवणाई ॥२५३॥
जे उद्धरंति भत्तीइ सडिअपडिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥२॥" जीर्णचैत्योद्धार कारणपूर्वकमेव च नव्यचैत्यकारापणमुचितं, तत एव सम्प्रतिनृपतिना एकोननवतिः सहस्रा जीर्णोद्धाराः कारिताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव, एवं कुमारपालवस्तुपालाद्यैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एव बहवो व्यधाप्यन्त इति । चैत्ये च कुण्डिकाकलशोरसप्रदीपादिसर्वाङ्गीणोपस्करणकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिदानं, यथा अविच्छिन्ना पूजा प्रवर्तते इति द्वारं १ । इत्थं च चैत्ये निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत्, यदाह षोडशके श्रीहरिभद्रसूरि:-"जिनभवने जिनबिम्ब, कारयितव्यं द्रुतं तु बुद्धिमता । साऽधिष्ठानं ह्येवं, तद्भवनं वृद्धिमद्भवति ॥१॥” बिम्बकारणविधिस्त्वेवम्-"जिनबिम्बकारणविधिः, काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्यापणमनघस्य शुभेन भावेन ॥१॥” काले तदुचितावसरे, कर्तुः सूत्रधारस्य, पूजापूर्वकं, विभवोचितं स्वसमृद्ध्यनुरूपं, यन्मूल्यं वेतनं, तस्यार्पणं दानम् , अनघस्य-निर्दोषस्य कर्तुः, शुभेन भावेन-उदारतया प्रवर्द्धमानप्रशस्ताध्यवसायेनेत्यर्थः । अनघशिल्पिनोऽभावे यद्विधेयं तदाह-"नार्पणमितरस्य तथा, युक्त्या वक्तव्यमेव मूल्यमिति । काले च दानमुचितं, शुभभावेनैव विधिपूर्वः (पूर्वम्)॥२॥” इतरस्य सदोषस्य, तथा स्वविभवो
॥२५३॥
Jain Education into na
For Private & Personel Use Only
ww.jainelibrary.org