________________
संग्रह
नक्षत्रादि सम्बन्धादि वा 'शकुनो' विवक्षितार्थसिद्धिसूचकं निमित्तं, 'क्रन्दितशब्दादि' आक्रन्दध्वनिप्रतिषेध-15
वचनप्रभृति, पुनः इतरोऽशकुन इत्यर्थः । षोडशकेऽपि-"दार्वपि च शुद्धमिह यन्नानीतं देवताग्रुपवनादेः। ॥२५२॥
प्रगुणं सारवभिनवमुच्चैर्ग्रन्थ्यादिरहितं च ॥ १॥ सर्वत्र शकुनपूर्व, ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥२॥” अथ भृतकानतिसन्धानद्वारमाह-"कारवणेऽविअ तस्सिह, भितगाणतिसंधणं ण कायव्वं । अविआहिगप्पदाणं, दिहादिवप्फलं एअं॥६॥" 'कारापणे विधापने अपि, चैत्यवत्तस्य-जिनभवनस्य, इह द्रव्यस्तवाधिकारे, भृतकानां कर्मकराणां सूत्रधारादीनां, अतिसन्धानं वश्चनं । देयद्रव्यापेक्षया न कर्त्तव्यम्, अपि च 'अधिकतरप्रदान' प्रतिपन्नवेतनापेक्षया समर्गलतरद्रव्यवितरणं, कर्त्तव्यमिति प्रक्रमः, यतो दृष्टादृष्टफलम्-उपलभ्यानुपलभ्यप्रयोजनमेतद्-अधिकप्रदानमिति । अत्र च दृष्टफलं यथा ते भृतका वराका अधिकप्रदानेन तुष्टाः सम्यक् कार्य कुर्वन्ति, अदृष्टफलं च धर्मप्रशंसया केचिद्बोधिबीजान्यप्युपार्जयन्तीति भावः । षोडशकेऽपि-"भृतका अपि कर्त्तव्या, य इह विशिष्टाः स्वभावतः केचित् । यूयमपि गोष्ठिका इह, वचनेन सुखं तु ते स्थाप्याः॥१॥ अतिसन्धानं चैषां, कर्त्तव्यं न खलु धर्ममित्राणाम् । न व्याजादिह धर्मो, भवति तु शुद्धाशयादेव ॥२॥” अथ स्वाशयवृद्धिद्वारमाह-"सासयवुड्डीऽवि इहं,
भुवणगुरुजिणिंदगुणपरिणाए । तबिंबठावणत्थं, सुद्धपवित्तीए णिअमेणं ॥ ७ ॥ पेच्छिस्सं इत्थमहं, टूबंदणगणिमित्तमागए साहू । कयपुण्णे भगवंते, गुणरयणणिही महासत्ते ॥ ८॥ पडिबुझिस्संति इह, दळूण |
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org