________________
Jain Education Inte
विद्याविहिता सन्न्यायतश्च योपात्ता । न परोपतापहेतुश्च सा जिनेन्द्रैः समाख्याता ॥ १ ॥” इति । अथ दलद्वारं व्याख्यानयन्नाह - "कट्ठाईवि दलं इह, सुद्धं जं देवतादुववणाओ । णो अविहिणोवणीअं, सयं च काराविअं जं णो ॥ ३ ॥” तत्काष्ठादि दलं शुद्धं यद्देवतोपवनादेः व्यन्तरकाननादेर्नानीतं, तदानयने हि तस्याः प्रद्वेषसम्भवादिति । तथा अविधिना - द्विपदचतुष्पदशरीरादिसन्तापजननद्वारेण, नानीतं, तथा स्वयं यन्न कारितं वृक्षच्छेदेष्टकापचनादिभिः, तच्छुद्धं, यतः षोडशकेऽपि - "दलमिष्टकादि तदपि च, शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ॥ १ ॥” इति । अथ दलस्यैव शुद्धाशुद्धपरिज्ञानोपायमाह" तस्सवि अ इमो णेओ, सुद्धासुद्धपरिजाणणोवाओ । तक्कहगहणादिम्मी, सउणेअरसण्णिवाओ जो ॥ ४ ॥” तस्य दलस्यापिशब्दाद्भूमेश्चायं शुद्धाशुद्धपरिज्ञानोपायो ज्ञेयः, तयोर्दलभूम्योः कथा - ग्रहणपर्यालोचः, ग्रहणं च परतः स्वीकरणं, तदादिर्यस्यानयनादेस्तत्तथा, तत्र तत्कथाग्रहणादौ, 'शकुनेतरसन्निपातः साधकसाध्यच्छीत्कृतादिनिमित्तसम्बन्धो यः स उपाय इति प्रस्तुतमिति गाथार्थः । शकुनाशकुनयोरेव स्वरूपोद्देशमाह“णंदाइ सुहो सद्दो, भरिओ कलसोत्थ सुंदरा पुरिसा । जहजोगाई सउणो, कंदिअसद्दादि इअरो उ ॥ ५ ॥” 'नन्द्यादि:' नन्दीप्रभृतिः, तत्र नन्दी द्वादशतूर्यनिर्घोषः, तद्यथा - 'भंभामउंद्मद्दल कलंबझल्लरिहुडुक्क कंसाला । वीणा वंसो पडहो, संखो पणवो अ बारसमो ॥ १ ॥' आदिशब्दात् घण्टाशब्दादिग्रहः । तथा 'भृतो' जलपरिपूर्ण: 'कलशो' घटः, 'अन' व्यतिकरे, सुन्दराकारनेपथ्या नराः 'शुभयोगादि' प्रशस्तचेष्टाप्रभृति शुभचन्द्र
For Private & Personal Use Only
jainelibrary.org