________________
धर्म
॥२५१ ॥
Jain Education Int
॥ १ ॥" तत्र 'चैत्यं' जिनभवनं तस्य निर्मापणं, तच्च विधेयतया पूर्व सप्तक्षेत्र्यधिकारे उक्तमपीदानीं तद्विधिः प्रदर्श्यते एवं जिनप्रतिमाकारणपुस्तकलेखनयोरपि भाव्यं तत्र प्रथमं तदधिकारी इत्थं षोडशके - “न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ १ ॥ " पञ्चाशकेऽपि – “अहिगारी उ गिहत्थो, सुहस्यणो वित्तसंजुओ कुलजो । अखुद्दो धिइबलिओ, मइमं तह धम्मरागी अ ॥ १ ॥ गुरुपूआकरणरई, सुस्सूसाइगुणसंगओ चेव । णायाहिगयविहाणस्स घणिअमाणापहाणो य ॥ २ ॥” इति कण्ठ्ये । नवरं 'अखुद्द'त्ति अक्षुद्रोऽकृपणः, 'धृतिबलिकः' चित्तसमाधानलक्षणसामर्थ्ययुक्तः, तथा 'ज्ञाता' विद्वान्, कस्येत्याह- 'अधिकृतविधानस्य' जिनभवनकारणविधेः, तथा धनिकमत्यर्थ, 'आज्ञाप्रधानश्च' आगमपरतन्त्रश्चेति । अथ तद्विधिर्यथा - "जिणभवणकारणविही, सुद्धा भूमी दलं च कट्ठाई । भिअगाणइसंघाणं, सासयवुडी अ जयणा य ॥ १ ॥” द्वारगाधेयं । जिनभवनकारणविधिः, किंविधः ? इत्याह-शुद्धा निर्दोषा, भूमिः क्षेत्रं, दलं चोपादानकारणं काष्ठेष्टकादि, तथा भृतकानां कर्मकराणामनतिसङ्घानम् - अवञ्चनं, तथा खाशयस्य- शोभनाध्यवसायस्य वृद्धिः-वर्द्धनं, सा च, तथा 'यतना' यथाशक्ति दोषत्यागेनेति द्वारगाथार्थः । अथ शुद्धभूमिं दर्शयन्नाह - "दब्वे भावे अ तहा, सुद्धा भूमी पएसकीला य । दब्वेऽपत्तिगरहिआ, अण्णेसिं होइ भावे उ ॥ २ ॥ " द्रव्यतः शुद्धा भूमिः प्रदेशे विशिष्टजनोचितभूभागे, अकीला च शङ्करहिता, उपलक्षणत्वादस्थ्ध्यादिशल्यरहिता । भावतस्तु अप्रीतिरहिता अन्येषामिति गम्यं । षोडशकेऽपि - “शुद्धाऽत्र वास्तु
For Private & Personal Use Only
संग्रह.
॥ २५१ ॥
ninelibrary.org