SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Jain Education ॥ १ ॥ " यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्वारे आलोचकस्यापि १, 'ल्हादिजननं' प्रमोदोत्पादः २, आत्मपरयोर्दोषेभ्यो निवृत्तिः, आलोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तत् दृष्ट्वाऽन्येऽप्यालोचनाभिमुखाः स्युरित्यन्येषामपि दोषेभ्यो निवृत्तिः ३, 'आर्जवं निर्मायता सम्यगालोचनात् ४, 'शोधि:' शुद्धिता अ तिचारमलापगमात् ५, 'दुष्करकरणं' दुष्करकारिता, यतो यत्प्रतिसेवनं तन्न दुष्करं अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात्, निशीथचूर्णावप्यूचे"तं न दुक्करं, जं पडिसेविज्जइ, तं दुक्करं, जं सम्मं आलोइज्जइत्ति" अत एव आभ्यन्तरतपोरूपं सम्यगालोचनं मासक्षपणादिभ्यो दुष्करं ६, तथा आज्ञा तीर्थकृतामाराधिता स्यात् ७, निःशल्यत्वं स्पष्टं । उक्तं चैकोनत्रिंशदुत्तराध्ययने – “आलोयणयाए णं भंते ! जीवे किं जणइ ?, आलोयणयाए णं मायानियाणमिच्छादंसणसल्लाणं अनंतसंसारवडणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ । उज्जुभावपडिवन्ने अ णं जीवे अमायी इत्थीवेअं नपुंसगवेअं च न बंधइ, पुव्वबद्धं च णं निजरेइ” इति ८ । एते शोधेरालोचनाया गुणाः ८ । इति श्राद्धजीतकल्पतद्वृत्तिपञ्चाशकतद्वृत्तिभ्य उद्धृतः किञ्चिदालोचनाविधिः । तीव्रतराध्यवसायकृतं बृहत्तरमपि निकाचितमपि बालस्त्रीहत्यादि महापापं सम्यगालोच्य गुरुदत्तप्रायश्चित्तविधाने दृढप्रहारिप्रभृतिवत्तद्भवेऽपि क्षीयत इति प्रतिवर्ष प्रतिचातुर्मासकं वाऽऽलोचना दातव्येति वर्षकृत्यानि ॥ अथ जन्मकृत्यानि यथा - "चेइअ १ पडिम २ पट्ठा ३, सुआइपव्वावणा य ४ पयट्टवणा ५ । पुत्थयलेहणवायण ६ पोसहसालाइ कारवणं ७ For Private & Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy