________________
Jain Education Int
क्षीरद्रुमो न्यग्रोधादिः, आदिशब्दाच्चम्पकाशोकादिपरिग्रहः । आह च - “दुब्वे सुवण्णगाइस्, खीरदुमाइस आलोए'ति । जिनभुवनादि, आदिशब्दादन्यदपि शुभक्षेत्रं, आह च -- " उच्छुवणे सालिवणे, चेइहरे चेव होइ खेत्तम्मि । गंभीरसाणुणाए, पयाहिणावत्तउद्गे अ ॥ १ ॥” पूर्णाप्रभृतितिथयः, प्रभृतिग्रहणादशुभतिथिवर्जतिथिग्रहः, यतः - "पडिकूले अ (उण) दिवसे, वज्जेज्जा अट्ठमिं च नवमिं च । छद्धिं च चउत्थि च, वारसि दोपि पक्खाणं" ॥१॥ इति । शुभोपयोगादीत्यत्रादिशब्दान्निमित्तशास्त्रगतशुभभावपरिग्रहः । इति मूलद्वारगाथा विवरणं । एवं विधिना शुद्धिः कार्या यथा भावतो निःशल्यत्वं स्यात्, भावशल्यं तु स्वकृतदुश्चरितस्य सम्यक् परसाक्षिकमप्रकाशनं, यतः - " सम्मं दुच्चरिअस्सा, परसक्खिमप्पगासणं जं तु । एअंच भावसलं, पण्णत्तं वी अरागेहिं ॥ १ ॥" अत्र परसाक्षिकमित्युक्तेश्च खयमालोच्य स्वकल्पनया शुद्धौ कृतायामपि सशल्यतैवेति ज्ञापितं यतः- “आलोअणं अदाडं, सइ अण्णंमि तहऽप्पणो दाउँ । जेविहु करेंति सोहिं, तेवि ससल्ला विणिद्दिट्ठा ॥ १ ॥" अनेन च परसद्भावे परस्यैव तां यच्छन् शुद्ध्यतीत्युक्तं, यदाह"छत्तीसगुणसमन्नागएण तेणषि अवस्स कायव्या । परसक्खिआ विसोही, सुहृवि ववहारकुसलेणं ॥ १ ॥ " पराभावे तु आत्मनोऽपि यच्छन् शुद्ध्यति, केवलं सिद्धान् साक्षीकृत्य, यदाह - 'सिद्धावसाणे अत्ति' । एवं यथा तथापि निःशल्यतया भवितव्यं, सशल्यमरणे च महान् दोषो, यतः- “जं कुणइ भावसलं, अणुद्धिअं उत्तम कालम्मि | दुल्लहबोहीगत्तं, अनंतसंसारिअत्तं च ॥ १ ॥" इत्यादिशल्यानुद्धरणविपाकदर्शिनैव
For Private & Personal Use Only
jainelibrary.org