________________
धर्म
॥ २४९ ॥
Jain Education Inte
नानुलोम्येनैवालोचयति, कारणं तु गीतार्थगम्यम्, इतरस्त्वा सेवनानुलोम्येन, आलोचनानुलोम्यानभिज्ञत्वात् तस्य, अत्र च कारणमतिचाराणां सुस्मरत्वमिति गाथाद्वयार्थः ॥ अथ सम्यगितिद्वारं विवृणोति - "तह आउहिअदप्पप्पमायओ कप्पओ व जयणाए । कज्जे वाऽजयणाए, जहट्ठिअं सव्वमालोए ॥ १ ॥" तथेतिशब्दो यथाक्रमं आलोचनाङ्गमेवमाकुध्यादिकृतत्वमपीत्येतदर्थः । आकुट्टिका उपेत्यकरणं, दर्पो वल्गनादिः प्रमादोमद्यादि: स्मृतिभ्रंशादिर्वा, एषां इन्द्रोऽतस्तेभ्यस्तत आकुट्टिकादर्पप्रमादतः, तथा 'कल्पतो वा' अशिवादिपुष्टालम्बनतो वा, कल्पश्च यतनादिविषय इत्यत आह-यतनया यथाशक्ति संयमरक्षारूपया, 'कार्ये वा' प्रयोजने वा सम्भ्रमहेतौ प्रदीपनकादावयतनयाऽनपेक्षितसारेतरविभागतया यदासेवितं तदिति गम्यं, यथास्थितं सर्वमालोचयेत्- गुरुभ्यो निवेदयेद्विशुद्धिकामो, नतु लज्जादिना किञ्चिद्गोपयति, यतः - "जह बालो जंपतो, कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोइजा, मायामयविप्यमुक्को अ ॥ १ ॥ मायाइदोसर हिओ, पइसमयं
माणसंवेगो । आलोइज्ज अकज्जं, न पुणो कार्हति निच्छयओ ॥ २ ॥ लज्जाइ गारवेणं, बहुस्सुअमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, नहु सो आराहओ भणिओ ॥ ३ ॥ गारवेणत्ति - रसादिगौरवप्रतिबद्धत्वेन, तपोऽचिकीर्षुतयेत्यर्थः । अथ द्रव्यादिशुद्धिमाह - "दव्वाईसु सुहेसुं, देआ आलोअणा जओ जेसुं । होंति सुहभाववुडी, पाएण सुहा उ सुहहेऊ ॥ १ ॥” कण्ठ्या । शुभद्रव्यादिव्याख्यानायाह - "दब्वे खीरदुमाई, जिणभुवणाई अ होंति खिन्तंमि । पुण्णतिहिपभिइ काले, सुहोवओगाइ भावेसुं ॥ २ ॥” सुगमा । नवरं -
For Private & Personal Use Only
संग्रह
॥ २४९ ॥
jainelibrary.org