________________
अरहंताणं सिद्धाणं अंतिए आलोइज्जा पडिक्कमेजा जाव पायच्छित्तं पडिवज्जेज्जासि त्तिवेमि" व्यवहारस्य प्रथमोदेशके । अत एव गीतार्थस्य दुर्लभत्वे कालतो द्वादश वर्षाणि क्षेत्रतः सप्त योजनशतानि तद्भवेषणा कार्या, न तु अगीतार्थस्य पुरः आलोच्यं, यतः - " सल्लुद्धरणनिमित्तं गीअत्थन्नसणा उ उक्कोसा । जोअणसयाई सत्त उ, बारसवरिसाई कायव्वा ॥ १ ॥" इह च शेषविशेषणानुपादनेन यद्गीतार्थग्रहणं कृतं, तत्सकलोक्तगुणयुक्ताचार्यालाभे संविग्नगीतार्थमात्रस्याप्यालोचनाचार्यत्वस्य ज्ञापनार्थ इत्यलं प्रसङ्गेन । अथ पूर्व द्वारगाथायां क्रमेणालोच्यमिति द्वारमुक्तं, तत्प्रकाशनायाह - "दुविणणुलोमेणं, आसेवणविअडणाभिहाणं । आसेवणाणुलोमं, जं जह आसेविअं विअडे ॥ १ ॥ आलोयणाणुलोमं, गुरुगवराहे उ पच्छओ विअडे । पणगाइणा कमेणं, जह जह पच्छित्तबुट्टी उ ॥ २ ॥” व्याख्या- 'द्विविधेन' द्विप्रकारेण, 'अनुलोम्येन' क्रमेण, द्वैविध्यमेवाह-आसेवनेन यदानुलोम्यं तदासेवनमेव, विकटनेन यत्तद्विकटनमेवातस्ते एवाभिधाने यस्य तत्तथा तेनासेवनविकदनाभिधानेनालोचनां ददातीति द्वारगाथायां सम्बन्धनीयं । तत्राद्यं खरूपत आहआसेवनानुलोम्यं तत् यत् येन क्रमेणासेवितं विकटयत्यालोचनाकारीत १, आलोचनानुलोम्यं पुनस्तत्, 'गुरुकापराधान्' महदतिचारान् 'पश्चात्' लघ्वपराधानन्तरं 'विकटयति' आलोचयति, कथमित्याह - पणगत्ति समभाषात्वात्पञ्चकदशकप्रभृतिना क्रमेण प्रायश्चित्तवृद्धिर्वर्धनं यथा तथा विकटयतीति प्रकृतम्, इह च लघावतीचारे पञ्चकं नाम प्रायश्चित्तं, गुरुके तु दशकं, गुरुतरे तु पञ्चदशकमित्येवमादीति । अत्र गीतार्थ आलोच
Jain Education International
For Private & Personal Use Only
ainelibrary.org