SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ORDERENCCORLCASSADOROSAGE संभोइअइअरगीअपासत्थो । सारूवी पच्छाकड देवयपडिमा अरिहसिद्धो ॥१॥" साधुना श्राद्धेन वा नियमतः प्रथमं खगच्छे आचार्यस्य तदद्योगे उपाध्यायस्य एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनो वा आलोचनीयं, स्वगच्छे पश्चानामप्यभावे साम्भोगिक एकसमाचारीके गच्छान्तरे आचार्यादिक्रमेणालोच्यं, तेषामप्यभावे इतरस्मिन्नसाम्भोगिके संविग्ने गच्छे स एव क्रमः, तेषामप्यभावे गीतार्थपार्श्वस्थस्य, तस्याप्यभावे गीतार्थसारूपिकस्य, तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यं । सारूपिकः शुक्लाम्बरो मुण्डोऽबद्धकच्छो रजोहरणरहितोऽब्रह्मचर्योऽभार्यों भिक्षाग्राही, सिद्धपुत्रः सशिखः सभार्यश्च, पश्चात्कृतस्तु त्यक्तचारित्रवेषो गृहस्था, पार्श्वस्थादेरपि गुरुवद्वन्दनकप्रदानादिविधिः कार्यो, विनयमूलत्वाधर्मस्य, यदि तु पार्श्वस्थादिः खं हीनगुणं पश्यन् न वन्दनं कारयति तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वा आलोचनीयं, पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्यं, पार्श्वस्थादीनामप्यभावे यत्र राजगृहे गुणशिलादावर्हद्गणधराद्यैर्बहुशः प्रायश्चित्तप्रदानं यया देवतया दृष्टं, तत्र तस्याः सम्यग्दृष्टरष्टमाद्याराधनेन प्रत्यक्षाया आलोच्यं, जातु सा च्युताऽन्योत्पन्ना तदा महाविदेहेऽर्हन्तं पृष्ठा प्रायश्चित्तं दत्ते, तदयोगेऽर्हत्प्रतिमानां पुर आलोच्य स्वयं प्रायश्चित्तं प्रतिपद्यते, तासामप्ययोगे पूर्वोत्तराभिमुखोऽहत्सिद्धसमक्षमप्यालोचयेत्, न त्वनालोचित एव तिष्ठेत्, सशल्यस्यानाराधकत्वात् । इत्थं च पार्श्वस्थादीनामपि गीतार्थानां पुर आलोचयितव्यं न तु संविग्नस्याप्यगीतार्थस्य पुरः, यतः-"अग्गीओ नवि जाणइ, सोहिं चरणस्स देइ कृतस्य चेत्सरसामगाराबहुशः प्रायश्चित्तप्रदान ला महाविदेहेऽर्हन्तं दृष्ट्वा प्रामुखोऽहत्सिद्धसमक्षप्याला Jain Education in For Private & Personel Use Only ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy