________________
सलो। खेअन्नो अविसाई, भणिओ आलोअणायरिओ ॥१॥” गीतार्थः-अधिगतनिशीथादिश्रुतसूत्रार्थः, कृतःअभ्यस्तो योगो-मनोवाकायव्यापारः,शुभोविविधतपोवास यस्यास्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः, चारित्री-निरतिचारचारित्रवान्, ग्राहणा-बहुयुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादितपोविधेरङ्गीकरणं तत्र कुशलः, खेदः-सम्यक्प्रायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः, तं जानातीति खेदज्ञः, अविषादी महत्यप्यालोचकस्य पापविषे-पापे श्रुते न विषाद्वान् , प्रत्युताऽऽलोचनादायकस्य तत्तनिदर्शनगर्भवैराग्यवचनरुत्साहक इत्यर्थः॥१॥पञ्चाशके वित्थम्-"तह परहिअम्मि जुत्तो, विसेसओ सुहुमभावकुसलमती। भावाणुमाणवं तह, जोग्गो आलोअणायरिओ॥१॥” 'परहिते' परोपकारे, 'युक्त' उद्युक्त उद्यत इत्यर्थः, तथा 'विशेषतः' आचार्यान्तरापेक्षया विशेषेण, सूक्ष्मभावकुशलमतिः, अत एव 'भावानुमानवान्' परचेतसामिङ्गितादिभिर्निश्चायकः, अयं 'आलोचनाचार्यों विकटनागुरुः, उक्तगुणकलापशून्यो हि न शुद्धिकरणक्षम इति । आलोचनाचार्यस्यैतेऽष्टौ गुणा:-"आयारवमाहारव, ववहारुब्वीलए पकुव्वी अ। अपरिस्सावी निजव, अवायदंसी गुरू भणिओ ॥ १॥” व्याख्या-'आचारवान्' ज्ञानासेवाभ्यां ज्ञानादिपञ्चप्रकाराचारयुक्तः, अयं हि गुणित्वेन श्रद्धेयवाक्यो भवति । तथा 'आहार'त्ति अवधार आलोचकोक्तापराधानामवधारणं तद्वान् , अयं हि सर्वापराधानां यथावधारणासमों भवति, तथा 'ववहार'त्ति मतुब्लोपायवहारवान् आगमश्रुताज्ञाधारणाजीतलक्षणपश्चप्रकारव्यवहारान्यतरयुक्तः, व्यवहारवांश्च यथावच्छुद्धिकरणसमर्थों भवति, तत्रा
Jain Education Internard
For Private & Personel Use Only
jainelibrary.org