________________
धर्म
मइमं कप्पट्टिओ अणासंसी। पण्णवणिजो सहो, आणाउतो दुकडतावी ॥ १ ॥ तव्विहिसमूसगो खलु, अभिग्गहा सेवणाइलिंगजुओ । आलोअणापयाणे, जोग्गो भणिओ जिणिंदेहिं ॥ २ ॥” व्याख्या -संविग्नस्तु ॥ २४६ ॥ ॐ संसार भीरुरेवालोचनाप्रदाने योग्य इति योगः, तस्यैव दुष्करकरणाध्यवसायित्वात्, दुष्करं चालोचनादानं,
Jain Education
यदाह - "अवि राया चए रजं, नय दुच्चरिअं कहे" १, तथा 'अमायी' अशठः, मायी हि न यथावद्दुष्कृतं कथयितुं शक्नोति २, तथा 'मतिमान' विद्वान्, तदन्यो हि आलोचनीयादिखरूपमेव न जानाति ३, तथा 'कल्पस्थितः स्थविरजातसमाप्तकल्पादिव्यवस्थितः, तदन्यस्य हि अतीचारविषया जुगुप्सैव न स्यात् ४, तथा 'अनाशंसी आचार्याचाराधनाशंसारहितः, सांसारिकफलानपेक्षो वा, आशंसिनो हि समग्रातिचारालोचनाऽसम्भवादाशंसाया एवातिचारत्वात् ५, तथा 'प्रज्ञापनीयः' सुखावबोध्यः, तदन्यो हि खाग्रहादकृत्यविषयान्निवर्त्तयितुं न शक्यते ६, तथा 'श्राद्ध' श्रद्धालुः, स हि गुरुक्तां शुद्धिं श्रद्धत्ते ७, तथा 'आज्ञावान्' आप्तोपदेशवर्त्ती, स हि प्रायोऽकृत्यं न करोत्येव ८, तथा दुष्कृतेन अतिचारासेवनेन तप्यते अनुतापं करोतीत्येवंशीलः दुष्कृततापी, स एव हि तदालोचयितुं शक्नोति ९, तथा 'तविधिसमुत्सुकः खलु' आलोचनाकल्पलालस एव स हि तदविधिं प्रयत्नेन परिहरति १०, तथा अभिग्रहासेवनादिभिः द्रव्यादिनियमविधानविधापनानुमोदनप्रभृतिभिर्लिङ्गैः-आलोचनायोग्यतालक्षणैर्युतो युक्तो यः स तथा ११, आलोचनाप्रदाने प्रतीते योग्य:- अर्हो भणितो जिनैरिति गाथाद्वयार्थः ॥ अथार्हगुरुद्वारविवरणं श्राद्धजीतकल्पे एवं - "गीअत्थो कडजोगी, चारित्ती तय गाहणाकु
For Private & Personal Use Only
संग्रह
॥ २४६ ॥
w.jainelibrary.org