________________
Jain Education
रूपा प्रभावना कार्या, शासनप्रभावनायाश्च तीर्थकृत्त्वादिफलत्वात् उक्तं च - " अप्पुव्वनाणगहणे, सुअभक्ती पवयणे पभावणया। एएहिं कारणेहिं, तित्थयरक्तं लहइ जीवो ॥ १ ॥” तथा - " कारणाद्विकां मन्ये, भावनातः प्रभावनाम् । भावना मोक्षदा खस्य, खान्ययोस्तु प्रभावना ||२||” इति १० । तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या, यतः - "प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्वलः ॥ १ ॥” आवश्यकनिर्युक्तौ तु तस्याः काल एवमुक्तः- “ पक्खिअचाउम्मासिअ, आलोयण णिअमसो उ दायव्वा । गहणं अभिग्गहाण य, पुव्वग्गहिए णिवेदेउं ॥ १ ॥” प्रथममालोचनेति कः शब्दार्थः ?, उच्यते, आ सामस्त्येन स्वगताकरणीयस्य वागादियोगत्रयेण गुरोः पुरो भावशुद्ध्या प्रकटनमालोचना, यतः पञ्चाशके - "आलोअणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं । वइमाइएहिँ सम्मं, गुरुणो आलोयणा णेआ ॥ १ ॥" तद्विधिश्चायं श्राद्धजीतकल्पपञ्चाशकाद्युक्तो यथा - "एत्थं पुण एस विही, अरिहो अरिहंमि दलइ अ कमेणं । आसेवणाइणा खलु सम्मं दब्वाइसुद्धस्स ॥ १ ॥” व्याख्या - अत्र आलोचनायामेष वक्ष्यमाणो विधिः- कल्पः, तद्यथा- अर्ह आलोचनादानोचितः, अर्हे- आलोचनादानयोग्ये गुरौ विषयभूते, ददाति-प्रयच्छति, तथा क्रमेण, किंविधेन तेनेत्याह- आसेवनादिना, आदिशब्दादालोचनाक्रमग्रहः । आसेवनाक्रमेण आलोचनाक्रमेणेत्यर्थः, तथा 'सम्यक' यथावत्, आकुट्टिकादिभावप्रकाशनतः, तथा द्रव्यादि४ शुद्धौ सत्यां, प्रशस्तेषु द्रव्यादिष्वित्यर्थः इति द्वारगाथा । अथार्हद्वारविवरणं - "संविग्गो उ अमायी,
For Private & Personal Use Only
w.jainelibrary.org