SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२४५॥ ACOCCALCULASACROS: रणं च कार्ये ७ । श्रुतज्ञानस्य पुस्तकादेः कर्पूरादिना पूजामानं सर्वदाऽपि सुकर, तदशक्तेनापि प्रतिवर्षमेकशः कार्या ८ । तथा नमस्कारावश्यकसूत्रोपदेशमालादिज्ञानदर्शनविविधतपासम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैकं तत्प्रतिवर्ष विधिवत्कार्य, नमस्कारस्योपधानोबहनादिविधिपूर्वकमालारोपणेन आवश्यकादिसूत्राणाम् , एवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरादिढौकनादिना उपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनां शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिनोद्यापनानि कार्याणि ९। तीर्थप्रभावनानिमित्तं प्रतिवर्षमेकैकशोऽपि गुरुप्रवेशोत्सवसङ्घपरिधापनिका प्रभावनादि च कार्य । तत्र गुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः, यतः–'अभिगमणवंदणनमंसणेण' इत्यादि । न च साधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगमे उपेत्य तत्करणस्य प्रतिपादनात्, तथाहि साधोः प्रतिमाधिकारे व्यवहारभाष्यं-"तीरिअ उभामगनिउगरिसणं सन्निसाहुमप्पाहे। दंडिअभोइ8 असई, सावगसंघो व सकारं॥१॥" अस्या भावार्थोऽयं-प्रतिमासमापकः साधुःप्रत्यासन्नग्रामे बहुसाधुगमनागमनस्थाने आत्मानं दर्शयति, दर्शयंश्चात्मानं प्रतिमां समाप्यागतोऽहमिति कथयति, ततो गुरवो राजादीन् कथय-1 ति-यदमुको महातपस्वी समाप्सतपा इति महता सत्कारेण गच्छे प्रवेशनीय इति राजा, तदभावे ग्रामाधिकारी तभावे समृद्धश्रावकस्तभावे च चतुर्विधः सङ्घः सत्कुरुते, जीतमेतदिति । तथा सङ्घस्यापि नालिकेरप्रदानादि ॥ ४५॥ Jain Education in For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy