________________
चन्द्रोदयबन्धन-दीपतैलघृतधौतिकेसरचन्दनागुरुपुष्पचङ्गेरिकादिसमस्तपूजोपकरणप्रदान-नवदेवकुलिकादिवि- | धापन-सूत्रधारादिसत्करण-तीर्थाशातकनिवारण-तीर्थरक्षकसन्मानन-तीर्थदायप्रवर्त्तन-साधर्मिकवात्सल्यगुरुसअपरिधापनादिभक्ति-मार्गणदीनाशुचितदानादिसत्कृत्यानि कुरुते । एवं यात्रां कृत्वा प्रौढप्रवेशोत्सवैः खगृहमागतो देवाहानादिमहं विधाय सर्वसङ्घ भोजनादिसत्कारपूर्वकं विसर्य वर्षादि यावत्तीर्थोपवा
सादिकरणादिना दिनमाराधयतीति तीर्थयात्राविधिः । यात्रा च कल्याणकदिवसेषु विशेषलाभकरी, यतः४ हैपश्चाशके-"ता रहणिक्खमणाइवि, एते उ दिणे पडुच्च कायव्वं । जं एसो चिअ विसओ, पहाणमो तीऍ
किरिआए ॥१॥” तथा-"संवच्छरचाउम्मासिएसु अट्टाहिआसु अ तिहीसु । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसु ॥१॥” इत्यागमप्रामाण्यादेष्वपि दिवसेषु विशेषलाभकरी ज्ञेया, यात्रायाश्च दर्शनशुयङ्गत्वात्प्रयत्नः श्रेयानेच, यतः-“दंसणमिह मोक्खंगं, परमं एअस्स अट्टहाऽऽयारो। निस्संकादि भणिओ, पभावणं तो जिणिंदेहिं ॥१॥ पवरा पभावणा इह, असेसभावम्मि तीऍ सम्भावा । जिणजत्ता य तयंगं, जं पवरं तप्पयासोऽयं ॥ २॥” इति तृतीयद्वारं ३ । जिनगृहे लपनं-स्लात्रं, तदपि प्रत्यहं पर्वसु वा करणाशक्तेनापि प्रतिवर्षमेकैकं साडम्बरसमग्रसामग्रीमेलनादिपूर्व कार्य ४। तथा देवरव्यवृद्ध्यर्थ प्रतिवर्ष ऐन्द्री अन्या वा माला यथाशक्ति ग्राह्या, एवं नवीनभूषणचन्द्रोदयादि यथाशक्ति मोच्यं ५। तथा सर्वाङ्गाभरणविशिष्टाङ्गपत्रभङ्गीरचनपुष्पगृहकदलीगृहपुत्रिकाजलयत्रादिरचनानानागीतनृत्यागुत्सवैर्महापूजा रात्रिजाग
JainEducation intel
For Private & Personal Use Only
mainelibrary.org