SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२४४॥ विशुद्ध्यर्थ विधिवजिनानुद्दिश्य महोत्सवः तीर्थयात्रा, तत्रायं विधिः-प्रथमं मुख्यवृत्त्या ब्रह्मव्रतैकाहारपादचाराद्यभिग्रहान् प्रतिपद्यते, सत्यामपि वाहनसामय्यां पादचारणाशुचितमेव, यतः-"एकाहारी दर्शनधारी, यात्रासु भूशयनकारी । सच्चित्तपरीहारी, पदचारी ब्रह्मचारी च ॥१॥” ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थ देवालयान, कारयति च विविधपटमण्डपप्रौढकटाहादिचलस्कूपसरोवरादीन, सन्जयति शकटाद्यनेकविधवाहनानि, निमन्त्रयते च सबहुमानं श्रीगुरून सङ्घ खजनवर्ग च, प्रवर्तयत्यमारिं, करोति चैत्यादौ महापूजादिमहोत्सवं, ददाति दीनादिभ्यो दानं, प्रोत्साहयति निराधारेभ्यो विभववाहनादिदानविषयोघोषणापूर्व, आह्वयति कवचाङ्गकाग्रुपस्करार्पणादिसन्मानपूर्वमनेकोद्भटभटान् , प्रगुणयति च गीतनृत्यवाद्यादि, ततः करोति शुभेऽह्नि प्रस्थानमङ्गलं, तत्र सकलसमुदाय विशिष्टभोज्यताम्बूलादिभिः परिभोज्य परिधाप्य च दुकूलादिभिः विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभागवत्तरनरेभ्यः सङ्घाधिपत्यतिलकं, विद्धाति सङ्घपूजामहं, मार्गे च सम्यग् सङ्घसम्भालनां कुर्वन् प्रतिग्राम प्रतिपुरं च चैत्येषु स्नात्र पूजाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णोद्धारादिचिन्तां च विद्धन् तीर्थ प्रामोति । तद्दर्शने च रत्नमौक्तिकादिवर्धापनलपनेप्सितमोदकादिलम्भनिकादि कुरुते । तीर्थे चाष्टप्रकारादिमहाहपूजा-विधिलात्र-मालोद्घाटन-घृतधाराप्रदान-नवाङ्गजिनपूजन-दुकूलादिमयमहाध्वजप्रदान-रात्रिजागरण-गीत-॥२४४॥ नृत्यायुत्सवकरण-तीर्थोपवासषष्ठादितपोविधान-विविधफलभोज्यादिवस्तुढीकन-परिधापनिकामोचन-विचित्र र्थोपवासषष्टामदान नवाङ्गजिनपूजन-कलाद कुरुते । तीर्थे चाट En Edanemone For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy