________________
Jain Education
यमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ १४ ॥ बहुलैः कुङ्कुमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रतेः सदनद्वारमाससाद शनै रथः ॥ १५ ॥ त्रिभिर्विशेषकम् । राजाऽपि सम्प्रतिरथ, रथपूजा|र्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥ १६ ॥ रथाधिरूढां प्रतिमां, पूजयाऽष्टप्रकारया । अपूज यन्नवानन्दसरोहंसोऽवनीपतिः ॥ १७ ॥” इति । महापद्मचक्रिणाऽपि मातुर्मनोरथ पूर्त्तये रथयात्राऽत्याडम्बरैः चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता - “चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजण कय मंगलजय सहो ॥ १ ॥ सोवण्णजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचा| मरराईहिं दिप्तो ॥ २ ॥ हविअवित्तिं कुसुमेहिं पूईअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवह रिद्धीए || ३ || तूररवभरिअभुवणो, सरभसणचंतचारुतरुणिगणो । सामंतमंतिसहिओ, वचइ निवमंदिरंमि रहो ॥ ४ ॥ राया रहत्थपडिमं, पहंसुअकणयभूसणाईहिं । सयमेव अचिडं कारवेइ विविहाइ नहाई ॥ ५ ॥ तत्थ गमिऊण रयणिं, नीहरिओ सीहबारबाहिंमि । वाएण चलिअधयतंडवंमि पडमंडवंमि रहो ॥ ६ ॥ तत्थ पभाए राया, रहजिणपडिमाइ विरहउं पूअं । चउविहसंघसमक्खं, सयमेवारत्तिअं कुणइ ॥ ७ ॥ तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुतेहिं । ठाणे ठाणे पडमंडवे विउलेसु चितो ॥ ८ ॥ " इत्यादि । अथ तीर्थयात्रास्खरूपं तत्र तीर्थानि श्रीशत्रुञ्जयोज्जयन्तादीनि, तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यस्य शुभभावसम्पादकत्वेन भवाम्भोनिधितारणात्तीर्थान्युच्यन्ते तेषु सद्दर्शन -
For Private & Personal Use Only
Jainelibrary.org