SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२३॥ समर्थरूपस्य दर्शन कार्य मतिमतामिति। कुत इत्याहदाय किमित्याह -तापाभावपिस्वं ECORRRRRRRRRE च प्रतिक्षणमपरापरखभावास्कन्दनेनानित्यखभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः । यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । एतेषां मध्यात्को बलीयानितरो वेति प्रश्ने यत्कर्तव्यं तदाह "अमीषामन्तरदर्शन मिति" अमीषां त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य सम समर्थरूपस्य दर्शनं कार्यमुपदेशकेन, तदेव दर्शयति"कषच्छेदयोरयत्न इति"कषच्छेदयोः परीक्षाऽक्षमत्वेनादरणीयतायामयत्नोऽतात्पर्य मतिमतामिति। कुत इत्याह-"तद्भावेऽपि तापाभावेऽभाव इति” तयोः कषच्छेदयोर्भावः सत्ता तद्भावस्तस्मिन्, किं पुनरतद्भावे? इत्यपिशब्दार्थः। किमित्याह-'तापाभावें उक्तलक्षणतापविरहे अभावः परमार्थतोऽसत्तैव परीक्षणीयस्य, न हि तापे विघटमानं हेम कषच्छेदयोःसतोरपि खं खरूपं प्रतिपत्तुमलं, जातिसुवर्णत्वात्तस्य, एतदपि कथमित्याह-"तच्छुद्धौ हि तत्साफल्यमिति” तच्छुद्धौ तापशुद्धौ हिर्यस्मात्तत्साफल्यं तयोः कषच्छेद्योः सफलभावः, तथाहि ध्यानाध्ययनादिकोऽर्थो विधीयमानः प्रागुपात्तकर्म-13 निर्जरणफलः, हिंसादिकश्च प्रतिषिध्यमानो नवकर्मोपादाननिरोधफलः, बाह्यचेष्टाशुद्धिश्चानयोरेवानाविभूतयोर्योगेनाविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणामिन्यात्मन्युक्तलक्षणौ कषच्छेदौ स्वकार्य कत्तुं प्रभविष्णू स्यातामिति तयोस्तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति । ननु फलविकलावपि तौ भविष्यत इत्याह-"फलवन्तौ च वास्तवाविति” उक्तलक्षणभाजौ सन्तौ पुनस्तौ कषच्छेदौ वास्तवौ कष ACROSAROKAROSARSSESSIONS ॥२३॥ in Eduent an Intera For Private & Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy