________________
यथा स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यम्, समितिगुप्तिशुद्धा क्रिया इत्यादि । प्रतिषेधः पुनर्न हिंस्यात्सर्वभूतानि, नानृतं वदेदित्यादि, ततो विधिश्च प्रतिषेधश्च विधिप्रतिषेधौ किमित्याह-कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा, इदमुक्तंभवति यत्र धर्मे उक्तलक्षणो विधिः, प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते, स धर्मः कषशुद्धः। न पुन:-अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥१॥” इत्यादिकवाक्यगर्भ इति।छेदमाह "तत्संभवपालनाचेष्टोक्तिश्छेद | इति” । तयोविधिप्रतिषेधयोरनाविभूतयोः संभवः प्रादुर्भूतयोश्च पालना रक्षारूपा ततस्तत्संभवपालनार्थ या चेष्टा भिक्षाटनादिबाह्यक्रियारूपा, तस्या उक्तिश्छेदः । यथा कषशुद्धावप्यन्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते । स च छेदो विशुद्धबाह्यचेष्टारूपो, विशुद्धा च चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ खात्मानं लभेते, लब्धात्मानौ चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपश्चा प्रोच्यते स धर्मः छेदशुद्ध इति । यथा कषच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते । एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयत्यतस्तापं प्रज्ञापयन्नाह 8|"उभयनिबन्धनभाववादस्ताप इति” उभयोः कषच्छेदयोरनन्तरमेवोक्तरूपयोर्निबन्धनं परिणामि किमित्याह
तापोऽत्र श्रुतधर्मपरीक्षाधिकारे, इदमुक्तंभवति यत्र शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया
CRICACA-SCAKACOCCANCESC5643
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org