________________
धर्म
संग्रह.
॥ २२ ॥
हतबन्धमोक्षादिकाया देशनाया योगो व्यापारः कार्यः, इदमुक्तंभवति-यः पूर्व साधारणगुणप्रशंसादिरने
कधोपदेशः प्रोक्त आस्ते, स यदा तदावारककर्महासातिशयादङ्गाङ्गीभावलक्षणं परिणाममुपागतो भवति, तदा जीणे भोजन मिव गम्भीरदेशनायामसौ देशना)ऽवतार्यत इति । अयं च गम्भीरदेशनायोगो न श्रुतधर्मकथनमन्तरेणोपपद्यत इत्याह " श्रुतधर्मकथनमिति” श्रुतधर्मस्य वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथनलक्षणस्य सकलकुशलकलापकल्पद्रुमविपुलालवालकल्पस्य कथनं यथा-चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति, भावान् हेयेतरानराः॥१॥" अयं च श्रुतधर्मः प्रतिदर्शनमन्यथान्यथा प्रवृत्त इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याह "बहुत्वात् परीक्षावतार इति" तस्य हि बहुवाछुतधर्माणां श्रुतधर्म इतिशब्दसमानतया विप्रलब्धवुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसंबन्धिन्यामवतारः कार्यः, अन्यत्राप्यवाचि-तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति । स शब्दसाम्येऽपि विचित्रभेदैर्विभिद्यते क्षीरमिवार्जुनीयम् ॥१॥ लक्ष्मी विधातुं सकलां समर्था, सुदुर्लभं विश्वजनीनमेनम् । परीक्ष्य गृह्णन्ति विचारदक्षाः, सुवर्णवद्वञ्चनभीतचित्ताः॥२॥ इति । परीक्षोपायमेवाह-"कषादिप्ररूपणेति" यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कषच्छेदतापाः परीक्षणाय विचक्षणैराद्रियन्ते । तथाऽत्रापि श्रुतधर्मे परीक्षणीये कषादीनां प्ररूपणेति । कषादीनेवाह-"विधिप्रतिषेधौ कष इति" विधिरविरुद्धकर्तव्याऽर्थोपदेशक वाक्यं
॥२२॥
Jain Education
For Private & Personel Use Only
RIMrjainelibrary.org