________________
CCCCCCCCCCCCASSASS
नोद्विजन्त्यपि मोहतः॥१॥ धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु । न सत्कर्म कृषावस्य, प्रयतन्तेऽल्पमेधसः॥२॥'अस्येति' धर्मबीजस्य "बडिशामिषवत्तुच्छे, कुसुखे दारुणोदये । सत्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः॥३॥"इति। तथा“सजज्ञानप्रशंसनमिति” सदविपर्यस्तं ज्ञानं यस्य स सज्ज्ञानः पण्डितो जनस्तस्य,सतो वा ज्ञानस्य विवेचनलक्षणस्य प्रशंसनं पुरस्कार इति । यथा-तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माष्टभिः, स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयापि जगत्रयस्य नयनैस्तद्वस्तुनो वीक्षते, प्रत्याहृत्य दृशः समाहितधियः पश्यन्ति यत्पण्डिताः ॥१॥ इति । तथा "नोऽप्राप्यमभिवाञ्छन्ति, नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः ॥२॥ न हृष्यत्यात्मनो माने, नापमाने च रुष्यति । गाङ्गो हद इवाक्षोभ्यो, यः स पण्डित उच्यते॥३॥ तथा "पुरुषकारसत्कथेति” पुरुषकारस्योत्साहलक्षणस्य सत्कथा माहात्म्यप्रशंसनं यथा-दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं, व्योमैतन्ननु तावदेव विषमः पातालयात्रागमः । दत्वा मूर्द्धनि पादमुद्यमभिदो देवस्य कीर्तिप्रियैर्वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥१॥” तथा “विहाय पौरुषं कर्म, यो दैवमनुवर्तते । तद्विनश्यति तं प्राप्य, क्लीबं पतिमिवा-18 गना ॥१॥” इति । तथा “वीर्यढिवर्णनमिति" वीर्यः प्रकर्षरूपायाः शुद्धाचारबललभ्यायास्तीर्थकरवीर्यपर्यवसानाया वर्णनमिति।यथा-"मेरुं दण्डं धरां छत्रं,यत्केचित्कर्तुमीशते। तत्सदाचारकल्पद्रुफलमाहुर्महर्षयः॥१॥" तथा "परिणते गम्भीरदेशनायोग इति" परिणते गम्भीरायाः पूर्वदेशनापेक्षयाऽत्यन्तसूक्ष्माया आत्मास्तित्व
SKAPARRAGIRISASIRASAASAASAA
Jain Education in
For Private & Personel Use Only
(arjainelibrary.org