________________
धर्म
॥ २१ ॥
Jain Education Inter
दारिद्र्यरोगदौर्भाग्यशोकमौर्याणि । जातिकुलावयवादिन्यूनत्वं चाश्रुते प्राणी ॥ ५ ॥ देवेषु च्यवनवियोगदुःखितेषु, क्रोधेर्ष्यामद्मद्नातितापितेषु । आर्या नस्तदिह विचार्य संगिरन्तां यत्सौख्यं किमपि निवेदनीयमस्ति ॥ ६ ॥ इति” तथा “दुष्कुलजन्मप्रशस्तिरिति” दुष्कुलेषु शक्यवनशबरबर्बरादिसंबन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावस्तस्य प्रशस्तिः प्रज्ञापना कार्या । तत्र चोत्पन्नानां किमित्याह – “दुःखपरम्परा - निवेदनमिति” दुःखानां शारीरमानसाशर्मलक्षणानां या परम्परा प्रवाहस्तस्या निवेदनं प्ररूपणं यथा -असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते, तत्र चासुन्दर वर्णरसगन्धस्पर्शशरीर भाजां तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भाद्धिंसानृतस्तेयाशुद्धकर्मप्रवणानां नरकादिफलः पापकर्मापचय एव संपयते, तदभिभूतानां इह परत्र चाऽव्यवच्छिन्नानुबन्धा दुःखपरम्परा प्रसूयते यदुच्यते - "कर्मभिरेव स जीवो, विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ॥ १ ॥” तथा “उपायतो मोहनिन्देति” उपा यत उपायेनानर्थप्रधानानां मूढपुरुषलक्षणानां प्रपञ्चनरूपेण मोहस्य मूढताया निन्दा अनादरणीयताख्यापनेति, यथा - " अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं, तमाहुर्मूढचेतसम् ॥ १ ॥ अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव मूढो विजानाति, मुमूर्षुरिव भैषजम् ॥ २॥ संप्राप्तः पण्डितः कृच्छ्र, पूजया प्रतिबुध्यते । मूढस्तु कृच्छ्रमासाद्य, शिलेवाम्भसि मज्जति ॥ ३ ॥ अथवोपायतो मोहफलोपदर्शनद्वारलक्षणान्मोहनिन्दा कार्येति, – जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुताम् । वीक्षमाणा अपि भुवं,
For Private & Personal Use Only
संग्रह
॥ २१ ॥
www.jainelibrary.org