________________
Jain Education In
तिशतजिनस्तुतिः - "वरकनकशङ्खविद्रुममरकतघनसन्निभं विगतमोहम् । सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे ॥ १ ॥” वरं श्रेष्ठं यत्कनकं स्वर्ण शङ्खः कम्बुः विद्रुमः प्रवालं मरकतं- नीलरत्नं घनो-मेघस्तैः सन्निभं तत्सदृशवर्ण, पञ्चवर्णमित्यर्थः, तथा विगतमोहं-मोहरहितं, तथा सर्वामरपूजितं सकलदेवमहितं, ईदृशं जिनानां सप्ततिशतं - जिनसम्बन्धि सप्तत्यधिकशतं वन्दे-नौमीत्यर्थलेशः । साम्प्रतं प्रतिक्रमणकरणानन्तरं यत्कर्त्तव्यं तदाह – 'गुरो:' धर्माचार्यस्य 'विश्रामणा' श्रमापनयन सम्बाधनादिरूपा, उपलक्षणत्वात्संयमयात्रापृच्छाद्यपि ग्राह्यं, चः समुच्चये, एवो निश्चये, अन्वयस्तूक्त एव । अत्र च यद्यपि साधव उत्सर्गतः सम्बाधनां न कारयन्ति, 'संवाहणदंत होअणा ये'तिवचनात्, तथापि द्वितीयपदे साधुभ्यः सकाशात्, तदभावे तथाविधश्रावकादेरपि कारयन्त्येव, एवं श्रमापनयनाद्यपि, परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवतीति । ततो विश्रामणकरणानन्तरं स्वाध्यायस्याणुव्रतविध्यादिस्मरणस्य नमस्कारादिपरावर्त्तनस्य वाचनादिपञ्चविधस्य वा करणं विधानं, यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा बहुपायः स स्वगृह एवावश्यकं स्वाध्यायं च करोति, खाध्यायस्य हि महाफलं, यदाह - " बारसविहम्मिवि तवे, सन्भितरबाहिरे कुसलदिट्ठे । नवि किंचि अत्थि होही, सज्झायसमं तवो कम्मं ॥ १ ॥ " तथा " सज्झाएण पसत्थं, झाणं जाणइ अ सच्चपरमत्थं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥ १ ॥” इति । साम्प्रतं रात्रिविषयं यद्विधेयं तद्दर्शयन्नाह -
For Private & Personal Use Only
jainelibrary.org