SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २३५ ॥ द्रसुरसञ्चारित हेमकमलश्रेण्या कृत्वा सदृशैः सह अतिसङ्गतं अतिशयमिलनं प्रशस्यं प्रशंसार्ह इति कथितं बुधैरिति शेषः, ते जिनेन्द्राः शिवाय -कल्याणाय सन्तु भवन्तु ॥ २ ॥ “ कषायता पार्दितजन्तुनिर्वृतिं करोति यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम् ॥ ३ ॥” यो जैनमुखाम्बुदोद्गतः- जिनसम्बन्धिमुखरूपमेघोत्पन्नः कषायतापादितजन्तुनिर्वृतिं कषायतापपीडितप्राणिसमाधिं करोति, स शुक्रमासोद्भववृष्टिसन्निभः- ज्येष्ठमासजन्यवर्षासदृशो, गिरां विस्तरःसिद्धान्तरूपो वाक्प्रसरो, मयि विषये, तुष्टिं तोषं दधातु-पुष्णातु ॥ ३ ॥ तथा - “विशाललोचनदलं, प्रोद्यतांशुकेसरम् । प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः ॥ १ ॥” विशाललोचनरूपपत्रं दीप्यद्दन्तकिरणकेसरं वीरजिनेन्द्रस्य मुखपद्मं प्रातर्वो- युष्माकं पुनातु ॥ १ ॥ “ येषामभिषेककर्म कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः । तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः ॥ २ ॥ येषां जिनेन्द्राणां अभिषेककार्य विधाय, सुखमिति क्रियाविशेषणं, हर्षभरात् (मत्ताः) सुरेन्द्राः, तृणमपि तृणमात्रमपि, नाकं स्वर्ग, न गणयन्ति, ते जिनेन्द्राः प्रातर्वः शिवाय सन्तु ॥ २ ॥ कलङ्कनि [मुक्तममुक्तपूर्णतं, कुतर्क राहुग्रसनं सदोदयम् । अपूर्वचन्द्र जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम्] ॥ ३ ॥" कलङ्कनिर्मुक्तं- कलङ्करहितं, अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतं, पूर्णमित्यर्थः, कुतर्क राहुग्रसनं कुविचाररूपराहुभक्षकं, सदोदयं, अतोऽपूर्वचन्द्रमिव, ईदृशं जिनचन्द्रभाषितं - जिनेन्द्रवचनं, दिनागमे प्रभाते, नौमि पुनः कीदृशम् ? - बुधैर्नमस्कृतम् ॥ ३ ॥ अथ सप्त Jain Education International For Private & Personal Use Only संग्रह. ।। २३५ ।। w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy