________________
ध. सं. ४०
Jain Education
काययोगेन क्षमयामि ॥ १ ॥ " सव्वस्स समणसंघस्स, भगवओ अंजलिं करिअ सीसे । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ॥ २ ॥ " सर्वस्य श्रमणसङ्घस्य भगवतः अञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षाम्यामि सर्वस्य च अहमपि ॥ २ ॥ " सव्वस्स जीवरासिस्स, भावओ धम्मनिहिअनिअचित्तो । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ॥ ३ ॥ सर्वस्य जीवराशेः, भावतो धर्मे निहितं निजचित्तं येन स तथा ईदृशः, सर्व क्षमयित्वा क्षाम्यामि सर्वस्य अहमपि ॥ ३ ॥ अथ स्तुति:- "सुअदेवया भगवई, नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं, जेसिं सुअसायरे भन्ती ॥ १ ॥” श्रुतदेवता भगवती ज्ञानावरणीयकर्मसङ्घातं तेषां क्षपयतु सततं येषां श्रुतसागरे भक्तिरस्ति ॥ १ ॥ " जीसे खित्ते साहू, दंसणनाणेहिं चरणसहिएहिं । साहृति मुक्खमग्गं, सा देवी हर दुरिआई ॥ १ ॥" यस्याः क्षेत्रे चारित्रसहितैर्दर्शनज्ञानैः साधवो मोक्षमार्ग साधयन्ति सा देवी दुरितानि हरतु ॥ १ ॥ अथ वर्द्धमानस्तुतिः - " नमोऽस्तु वर्द्धमानाय, स्पर्द्धमानाय कर्मणा । तज्जयावासमोक्षाय, परोक्षाय कुतीर्थिनाम् ॥ १ ॥" वर्द्धमानाय नमोऽस्तु कीदृशाय ? - कर्मणा सह स्पर्द्धमानाय स्पर्द्धा कुर्वाणाय, पुनः कीदृशाय ?-तज्जयावाप्तमोक्षाय, तस्य कर्मणो जयः-अभिभवस्तेनावाप्तः -प्राप्तो मोक्षो येन स तस्मै, पुनः किंलक्षणाय ? -कुतीर्थिनां परोक्षाय-अदृश्याय ॥ १ ॥ " येषां विकचारविन्दराज्या, ज्यायः क्रमकमलावलीं दधत्या । सदृशैरतिसङ्गतं प्रशस्यं कथितं सन्तु शिवाय ते जिनेन्द्राः ||२||" येषां जिनेन्द्राणां ज्यायः क्रमकमलावली -प्रधानपदपद्मश्रेणिं दधत्या - धारयन्त्या विकचारविन्दराज्या- उन्नि
inal
For Private & Personal Use Only
ww.jainelibrary.org