SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥२३१॥ CAUSLOGANSLCUL प्रचुरवन्दारुवृन्दवन्दनसम्मर्ददर्शनात् अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात् पुरतः संभूय भूयो भूयः सदार्मिकजनविधीयमानोपबृंहणश्रवणात् अनघसमस्तसजनमध्यसमारब्धपुस्तकवाचनवस्त्रमाल्यादिसत्कारनिरीक्षणाचैवं मन्यते-प्रतिपन्नानशनस्थापि मम जीवितमेव सुचिरं श्रेयः, यत एवंविधा मदुद्देशेन विभूतिर्वर्त्तत इति जीविताशंसाप्रयोगः ३, तथा कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावे क्षुधाद्यातॊ वा चिन्तयति-किमिति शीघ्रं न म्रियेऽहमिति मरणाशंसाप्रयोगः ४, तथा कामभोगाशंसाप्रयोगः, तत्र कामौ-शब्दरूपौ, भोगा-गन्धरसस्पर्शाः, यथा ममास्य तपसः प्रभावात् प्रेत्य सौभाग्यादि भूयादिति ५, एष 'पञ्चविधोऽतिचारों'मा 'मम' 'भूयान्' मरणान्ते यावच्चरमोच्छ्रास इति ॥ ३३ ॥ सर्वोऽप्यतिचारो योगत्रयसम्भवोऽतस्तमुद्दिश्य तैरेव प्रतिक्रामन्नाह-"काएण काइयस्सा, पडिक्कमे वाइयस्स वायाए । मणसा माण|सियस्सा, सव्वस्स वयाइयारस्स ॥ ३४ ॥” कायेन वधादिकारिणा शरीरेण कृतः कायिकस्तस्य, आर्षत्वादत्र दीर्घः, 'कायेन' तपाकायोत्सर्गाद्यनुष्ठानपरेण देहेन, एवं वाचा सहसाभ्याख्यानदानादिरूपया कृतस्य वाचिकस्य, वाचैव मिथ्यादुष्कृतकरणादिलक्षणया, तथा मनसा देवतत्त्वादिषु शङ्कादिकलुषितेन कृतो मानसिकस्तस्य मनसैव हा दुष्टं कृतमित्याद्यात्मनिन्दापरेण, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति सामान्येन योगत्रयप्रतिक्रमणमुक्तं ॥३४॥ सम्प्रति विशेषतस्तदेवाह-वंदणवयसिक्खागारवेसु सन्नाकसायदंडेसु । गुत्तीसु समिईसु य, जो अइयारो तयं निंदे ॥ ३५॥" 'वन्दनं' चैत्यवन्दनं गुरुवन्दनं च, 'व्रतानि स्थूलप्राणाति ॥२३१॥ Jain Education International For Private & Personel Use Only Rijainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy