SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Jain Education %%% ॥ २८ ॥ अधुना पोषधोपवासः - तत्र पोषं पुष्टिं प्रक्रमाद्धर्मस्य धत्त इति पोषधः - अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः तत्रोपवसनं पोषघोपवासः । तद्भेदास्तु पौषधव्रते उक्तास्ततोऽवसेयाः । अत्र चातिचारप्रतिक्रमणायाह - " संथारुच्चारविही, पमाय तह चैव भोयणाभोए । पोसहविहिविवरीए, तइए सिक्खावए निंदे ॥ २९ ॥” 'संस्तारकः' कम्बलादिमय उपलक्षणत्वाच्छय्यापीठफलकादि च, 'उच्चारत्ति' उच्चारप्रश्रवणभूमयो द्वादश द्वादश विण्मूत्रस्थण्डिलानि एषां विधौ प्रमादः कोऽर्थः ? शय्यायां संस्तारके च चक्षुषा अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते वोपवेशनादि कुर्वतः प्रथमोऽतिचारः १, एवं रजोहरणादिना अप्रमार्जिते दुष्प्रमार्जिते च द्वितीय: २, एवमुच्चारादिभूमीनामपि द्वावतिचारौ, अतः प्रोच्यते- 'तहचे वत्ति' तथैव 'भवत्यनाभोगे' अनु पयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४, तथा 'पौषधविधिविपरीत' पोषधविधेश्चतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा कृतपौषधस्य क्षुधायार्त्तस्य पौषधे पूर्णे श्वः स्वार्थमाहारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतः पञ्चमोऽतिचारः, पाठान्तरं वा 'भोयणाभोयत्ति' भोजने आहारे उपलक्षणत्वात् देहसत्कारादौ आभोग-उपभोगः, कदा पौषधः पूर्णो भविष्यति । येनाहं भोक्ष्ये इत्यादितत्परतेति पञ्चमः ५ । एवं पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये सति 'तइए इत्यादि' प्राग्वत् ॥ २९ ॥ साम्प्रतमतिथिसंविभागाख्यं तुर्य शिक्षावतं, तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद्भोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते, तस्य सङ्गतो- निर्दोषो न्यायागतानां कल्पनीयान्नपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्मा For Private & Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy