________________
धर्म
॥ २२९ ॥
तत्तैलामलकादि याचित्वा नानादौ प्रवर्त्तन्ते, 'दण्डंमि अणट्टाएति' अनर्थदण्डाख्ये 'तइअंमीत्यादि' प्राग्वत् ॥ २६ ॥ साम्प्रतं शिक्षाव्रतानि, तत्र प्रथमं सामायिकं, तत्खरूपं च पूर्वमुक्तमेव, तस्यातिचारप्रतिक्रमणायाह - "तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सइविणे । सामाइअ बितहकए, पढमे सिक्खावए निंदे ॥ २७ ॥ 'त्रिविधं' त्रिप्रकारं 'दुष्प्रणिधानं' कृतसामाधिकस्य मनोवाक्कायानां दुष्प्रयुक्तता, तत्र मनसा गृहादिव्यापारचिन्तनं १, वाचा सावधकर्कशादिभाषणं २, कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निषदनादिविधानं ३, 'अनवस्थानं' सामायिककालावधेरपूरणं यथाकथञ्चिद्वाऽनादृतस्य करणं ४, तथा 'स्मृतिविहीनं' निद्रादि| प्रमादात् शून्यतयाऽनुष्ठितं ५, एतानाश्रित्य 'सामायिके' प्रथमे शिक्षावते 'वितथाकृते' सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति ॥ २७ ॥ अधुना देशावकाशिकं व्रतं तच पूर्व योजनशतादिना यावज्जीवं गृहीतदिग्व्रतस्य तथाभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं, सर्वव्रतसंक्षेपकरणरूपं वा । अस्यातिचारप्रतिक्रमणायाह - "आणवणे पेसवणे, सद्दे रूवे य पुग्गलक्खेवे । देसावगासियंमी, बीए सिक्खावए | निंदे ॥ २८ ॥” गृहादौ कृतदेशावकाशिकस्य गृहादेवहिस्तात् केनचित्किञ्चिद्रस्त्वानयतः आनयनप्रयोगः १, एवं प्रस्थापयतः प्रेष्यप्रयोगः २, गृहादेर्बहिःस्थस्य कस्यचित् काशितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपात: ३, एवं खरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्षमाणस्य रूपानुपात: ४, नियन्त्रितक्षेत्राइहिः स्थितस्य कस्यचित् लेष्वादिक्षेपणेन खकार्य स्मारयतः पुद्गलक्षेपः ५, 'देसावगासियंमीत्यादि' प्राग्वत्
Jain Education Intemational
For Private & Personal Use Only
संग्रह •
॥ २२९ ॥
jainelibrary.org