SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ व्यमुच्चाटनादिहेतुः, एतच्छस्त्रादि प्रभूतभूतसङ्घातघातहेतुभूतं दाक्षिण्याद्यभावेऽन्येभ्यो यद् दत्तं दापितं वा तस्य 'पडिक्कमे इत्यादि' प्राग्वत् ॥ २४ ॥ 'लानं' अभ्यङ्गपूर्वकमङ्गप्रक्षालनं, तचायतनया त्रससंसक्तभूम्यां सम्पातिमसत्त्वाकुले वाऽकाले वस्त्रापूतजलेन वा यत्कृतं, 'उद्वर्त्तनं' संसक्तचूर्णादिभिः, उद्वर्त्तनिकाश्च न भस्मनि क्षिप्तास्ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्ष्यन्ते, पादैर्वा मृद्यन्ते, 'वर्णकः' कस्तूरिकादिः विलेपनं' कुङ्कुमचन्दनादि, एते च सम्पातिमसत्त्वाद्ययतनया कृते 'शब्दों' वेणुवीणादीनां कौतुकेन श्रुतः, शब्दो वा निश्युचैःखरेण कृतस्तत्र, 'आउज्जोयणविणए' इत्याद्यधिकरणं यदभूत् 'रूपाणि' नाटकादौ निरीक्षितानि, 'रस' अन्येषामपि तद्गृद्धिहेतुर्वर्णितः, एवं 'गन्धादीन्यपि' अत्र विषयग्रहणात्तजातीयमद्यादिप्रमादस्य पञ्चविधस्यापि ग्रहः, यद्वाऽऽलस्येन तैलादिभाजनास्थगनं प्रमादाचरितं तस्मिंश्च, 'पडिक्कमे इत्यादि प्राग्वत् ॥ २५ ॥ अत्रातिचारप्रतिक्रमणायाह-"कंदप्पे कु कुइए, मोहरिअहिगरणभोगअइरित्ते । दंडंमि अणहाए, तइअंमि गुणव्वए निंदे ॥ २६॥” 'कन्दर्पो' मोहोद्दीपकं हास्यं १, 'कौकुच्यं' नेत्रादिविक्रियागर्भ हास्यजनकं विटचेष्टितं २, 'मौखर्य' असम्बद्धबहुभाषित्वं ३, 'अधिकरणत्ति' संयुक्ताधिकरणता, तत्राधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-मुशलोदूखलादि संयुक्तमर्थक्रियायां प्रगुणीकृतं तच तदधिकरणं च तद्भावः संयुक्ताधि करणता, इह विवेकिना संयुक्तं गन्धादि न धरणीयं, तदृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, विसंयुक्ते तु रावत एव निवारितः स्यात् ४, "भोगअइरित्तेत्ति' उपभोगपरिभोगातिरिक्तता, तदाधिक्यकरणे ह्यन्येऽपि Jain Education a l For Private & Personel Use Only adjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy