________________
धर्म
॥ २२८ ॥
Jain Education
णिज्यं, गोमनुष्यादिविक्रयः केशवाणिज्यं, विषशस्त्रादिविषयो विषवाणिज्यं, एतत्पञ्चविधं वाणिज्यं पूर्वोक्तं च पञ्चप्रकारं कर्म श्रावको वर्जयेदिति सण्टङ्कः । 'जंतपीलणत्ति' यन्त्रे - उलूखलादौ पीडनं धान्यखण्डनादि | तेन कर्म- जीविका यत्रपीडनकर्म, 'निलंछणत्ति' नितरां लाञ्छनम् - अङ्गावयवच्छेदस्तेन कर्म- जीविका निर्लाञ्छनकर्म, 'देवदाणत्ति' अरण्येऽग्निप्रज्वालनं 'सरदह इत्यादि' सरोद्रहतटाकशोषः- सारणीकर्षणेन ततो जलनिष्कासन मित्यर्थ, 'असईपोसंति' वृत्त्यर्थं दास्यादिदुःशीलजन्तुपोषणं लिङ्गमतन्त्रं, सूत्रे च एवंखुशब्दौ गाथापर्यन्ते सम्बध्येते, ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालादीनि च, खु निश्चयेन, सुश्रावको वर्जयेदिति ॥२२-२३॥ साम्प्रतमनर्थदण्डाख्यं तृतीयं गुणवतं, तत्रार्थी- देहखजनादीनां कार्य तद्भावोऽनर्थः, ततः प्राणी निष्प्रयोजनं पुण्यधनापहारेण दण्ड्यते पापकर्मणा विलुप्यते येन सोऽवध्यानाचरितादिकश्चतुर्द्धाऽनर्थदण्डः, तस्य | मुहर्त्तादिकालावधिना निषेधोऽनर्थदण्डव्रतं । तत्र चापध्यानाचरितपापोपदेशौ व्रताधिकारस्थव्याख्यानादेवावसेयौ, हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात् साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह – “सत्यग्गिमुसल| जंतगतणकट्ठेमंतमूल भेसज्जे । दिन्ने दवाविए वा, पडि० ॥ २४ ॥ न्हाणुव्वट्टणवण्णगविलेवणे सहरूवरसगंधे । वत्थासणआभरणे, पडि० ॥ २५ ॥" 'शस्त्राग्निमुशलानि' प्रतीतानि, 'यन्त्रकं' गन्र्यादि 'तृणं' महारज्जुकर| णादिहेतुर्दर्भादि वा व्रणकृमिशोधनं बहुकरी वा 'काष्ठं' अरघयष्ट्यादि, 'मन्त्रो' विषापहारादिः वशीकरणादिर्वा, 'मूल' नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, 'भेषजं' सांयोगिकद्र
For Private & Personal Use Only
संग्रह.
॥ २२८ ॥
jainelibrary.org