________________
FOROSAGAGROGRAASARA
याह-"सचित्ते १ पडिबद्धे ३, अप्पोलदुप्पोलिए य आहारे । तुच्छोसहिभक्खणया, पडि० ॥२१॥” कृत-13 सच्चित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सच्चित्तमतिरिक्तमनाभोगादिनाऽभ्यवहरतः सच्चित्ताऽऽहारोऽति-हू चारः १, एवं वृक्षस्थं गुन्दादि राजाद्नादि वा सास्थिकफलं मुखे प्रक्षिपतः सञ्चित्तप्रतिबद्धाहारः २, एवमपकस्याग्निनाऽसंस्कृतस्यापरिणतकणिकादेः पिष्टस्य भक्षणमपक्कौषधिभक्षणता ३, एवं दुष्पकस्य पृथुकादेर्दुष्पकौषधिभक्षणता ४, तुच्छा अतृप्तिहेतुत्वादसारा ओषधिः-कोमलमुद्गशिम्बादिका तां भक्षयतस्तुच्छौषधिभक्षणता ५। एतद्विषये 'पडिक्कमे इत्यादि प्राग्वत् ॥ २१ ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकर्मादीनि पञ्चदश कर्मादानानि तीव्रकर्मोपादानानि श्रावकेण ज्ञेयानि, न तु समाचरणीयानि, अतस्तेषु यदनाभोगादिनाऽऽचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह-"इंगाली वणसाडी, भाडी फोडी सुवजए कम्मं । वाणिज चेव य दंतलक्खरसकेसविसविसयं ॥२२॥ एवं खु जंतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा ॥२३॥" कर्मशब्दः पूर्वार्द्ध प्रत्येकं योज्या, तेनाङ्गारकर्म वनकर्म शकटकर्म भाटककर्म स्फोटकर्म चेति पञ्च कर्माणि, तत्रागारकर्माङ्गारकरणं, एवमन्यदपि वह्निसमारम्भेण यज्जीवनं तदङ्गारजीविका १, एवं वनकर्मादीन्यपि वाच्यानि, उत्तरार्द्धन पञ्च वाणिज्यान्याह-वाणिज्जमित्यादि विषयशब्दः प्रत्येकं योज्यस्ततो दन्तविषयं वाणिज्यं दन्तवाणिज्यम् , एवं लाक्षादिष्वपि, तत्राकरे दन्तिदन्तादित्रसाङ्गग्रहणं दन्तवाणिज्यं, एवं लाक्षादिविक्रयो लाक्षावाणिज्यं, मधुघृतादिविक्रयो रसवा
Jain Educationit
For Private Personal use only
D
r.jainelibrary.org