________________
संग्रह.
॥२२५॥
स्तेन, 'एकग्रहणे तज्जातीयग्रहणादाकुट्याद्यैरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह-"वह १ बंध २ छविच्छेए ३, अइभारे ४ भत्तपाणवोच्छेए ५। पढमवयस्सइयारे, पडिक्कमे देसि सव्वं ॥१०॥” 'वो' द्विपदादीनां निर्दयताडनं, 'बन्धो' रज्ज्वादिभिः संयमनं छविच्छेदः' कर्णादिच्छेदनं 'अतिभारः' शक्त्यनपेक्षं गुरुभारारोपणं 'भक्तपानव्यवच्छेदों' अन्नपाननिरोधः, सर्वत्र क्रोधादिति गम्यते, एतांश्च प्रथमवतातिचारानाश्रित्य यबद्धं, शेषं प्राग्वत् । वधादीनामतिचारता च प्रागतिचाराधिकारे भावितैव, अनाभोगातिक्रमादिना वा सर्वत्रातिचारताऽवसेया ॥९॥ द्वितीयव्रतमाह"बीए अणुव्वयंमी, परिथूलगअलियवयणविरईओ। आयरियमप्पसत्थे, इत्थ०॥१०॥” 'द्वितीये अणुव्रते' परीत्यतिशयेन स्थूलकम्-अकीर्त्यादिहेतुरलीकवचनं कन्यालीकादि पञ्चधा, तत्र द्वेषादिभिरविषकन्यां विषकन्यामित्यादि वदतः कन्यालीकं १, एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकं २, परसत्कां भूमिमात्मसत्कां वदतो भूम्यलीकं ३, उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदापदालीकानां, न्यासस्य-धनधान्यादिस्थापनिकाया हरणम्-अपलापो न्यासापहारः ४, अत्र पूर्वत्र चादत्तादानवे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं, लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षिकत्वं ५, अनयोश्च द्विपदाद्यलीकान्तर्भावेऽपि लोकेऽतिगर्हितत्वात्पृथगुपादानं, एतस्य पञ्चविधालीकस्य यवचनं-भाषणं तस्य विरतेः, आयरियेत्यादि प्राग्वत् ॥ ११ ॥ अस्यातिचारप्रतिक्रमणायाह-"सहसा रहस्सदारे, मोसुवएसे
॥२२५॥
Jain Education Interational
For Private & Personel Use Only
mainelibrary.org