________________
Jain Education
कृते मालिन्याभावात्, के सति ? 'पचने च पाचने च' चशब्दादनुमतौ च किमर्थमित्याह - 'आत्मार्थं खभोगार्थ 'परार्थ' प्राघूर्णकाद्यर्थ 'उभयार्थ' खपरार्थ, चशब्दोऽनर्थकद्वेषादिकृतदोषसूचकः, एवकारः प्रकारेयत्ताप्रदर्शकः, यद्वा 'आत्मार्थ' मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भविष्यति, एवं परार्थोभयार्थावपि, अथवा षट्रायसमारम्भादिष्वयत्नेनापरिशुद्धजलादिना ये दोषाः कृतास्तांश्च निन्दामीति ॥ ७ ॥ साम्प्रतं सामान्येन चारित्रातिचारप्रतिक्रमणायाह - “पंचण्ह मणुव्वयाणं, गुणव्वयाणं च तिण्हमइयारे । सिक्खाणं च चउन्हं, पडि० ॥ ८ ॥” कण्ठ्या, नवरं-अनु सम्यक्त्वप्रतिपत्तेः पश्चात् अणूनि वा महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि तानि पश्चेति मूलगुणाः, तेषामेव विशेषगुणकारकाणि दिग्वतादीनि त्रीणि गुणव्रतानि, एतानि यावत्कथितानि, शिक्षात्रतानि पुनरित्वरकालिकानि, शिक्षकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि ॥ ८ ॥ अधुना प्रथममाह - "पढमे अणुब्वयंमी, धूलगपाणाइवायविरईओ । आयरियमप्पसत्थे, इत्थप्पमायप्पसंगेणं ॥ ९ ॥" 'प्रथमे' सर्वव्रतानां सारत्वादादिमे, 'अणुव्रते' अनन्तरोक्तखरूपे, स्थूलको बाहयैरुपलक्ष्यत्वाद्वादरो गत्यागत्यादिव्यक्तलिङ्गद्वित्रिचतुष्पश्ञ्चेन्द्रियजीवसम्बन्धिनां प्राणानाम्-इन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिः- निवृत्तिस्तस्याः सकाशादतिचरितमतिक्रान्तं, एतच्च सर्वविरतिसङ्गमेऽपि स्याद्, न च तत्प्रतिक्रमणार्हमत आह- 'अप्रशस्ते' क्रोधादिनौदधिकभावे सति 'इत्थं ति अत्रैव प्राणातिपाते, 'प्रमादप्रसङ्गेन' प्रमादो मद्यादि पञ्चधा, तत्र प्रसञ्जनं प्रकर्षेण प्रवर्त्तनं प्रसङ्ग
For Private & Personal Use Only
jainelibrary.org