________________
Jain Education I
वरणं तु षडावश्यकप्रान्ते वक्ष्यते । अथ कायोत्सर्गः - कायस्य- शरीरस्य स्थानमानध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गः - त्यागो 'नमो अरिहंताण' मिति वचनात् प्राक् स कायोत्सर्गः । स च द्विधा चेष्टायामभिभवे च । तत्र चेष्टायां गमनागमनादावीर्यापथिक्यादिप्रतिक्रमणभावी, अभिभवे च उपसर्गजयार्थ, यदाहु:-"सो उस्सग्गो दुविहो, चिट्ठाए अभिभवे अ नायव्वो । भिक्खायरिआइ पढमो, उवसग्गभिउंजणे बीओ ॥ १ ॥" तत्राभिभवकायोत्सर्गी मुहर्त्तादारभ्य संवत्सरं यावद्वाहुबलेरिव भवति, स चानियत एव, चेष्टायां त्वष्टपञ्चविंशतिसप्तविंशतित्रिशती पञ्चशती अष्टोत्तरसहस्रोच्छ्वासान् यावद्भवति । तत्र नियतानियतविभाग एवमुक्त:- देसिअराइअ पक्खिन, चाउम्मासिअ तहेव वरिसे उ। एएस होइ नियया, उस्सग्गा अणिअया सेसा ॥ १ ॥ शेषा-गमनादिविषया इति । नियतकायोत्सर्गाणामोघत उच्छ्वासमानं चैवमुक्तम् - सायसगं गोसड, तिष्णेव सया हवंति पक्खमि । पंच य चाउम्मासे, अट्ठसहस्सं च वारिसए ॥ १ ॥ 'साय'त्ति सायं प्रदोषस्तत्र शतमुच्छ्वासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक् । 'गोसद्धंति' प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं स्पष्टं । उच्छासमानं चोपरिष्टाद्रक्ष्यति 'पायसमा ऊसासा' इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानं यथा चत्तारि दो दुवालस, वीसं चत्ता य हुंति उज्जोया । देसिअ राइअ पक्खिअ चाउम्मासे अ वरिसे अ ॥ १ ॥ भावितार्था । अथ श्लोकमानं यथा- पणवीसमद्धतेरस, सिलोग पण्णत्तरिं च बोद्धव्वा । सयमेगं पणवीसं, बेबावण्णा य
For Private & Personal Use Only
w.jainelibrary.org