________________
धर्म
॥ २१६ ॥
Jain Education
लेखनापूर्वी वन्दन के दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते, यत उक्तं दिनचर्यायाम् - "सामाइ अछम्मासः तवुरसग्ग उज्जोय पुत्तिर्वदणगं । उस्सग्गचिंतियतवो विहाणमह पञ्चखाणेणं ॥ १ ॥ इगपंचाइ दिणूणं, पणमास चतु तेरदिण उहुं । चतीसाउ दिणूणं, चिंते नवकारसहियं जा ॥ २ ॥” इति । ततश्च क्रमाद्धान्या यत् कर्त्तुं शक्नोति तन्मनसि निधाय पारयित्वा च कायोत्सर्गे मुखपोतिकाप्रति लेखनापूर्व बन्दनके दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते । तदनु 'इच्छामो अणुसट्ठि' इति भणित्वोपविश्य स्तुतित्रयादिपाठपूर्व चैत्यानि वन्दते । इदं च प्रतिक्रमणं मन्दखरेणैव कुर्यात्, अन्यथाऽऽरम्भिणां जागरणेनारम्भप्रवृत्तेः । ततश्च साधुः कृतपौषधः श्रावको वा क्षमाश्रमणद्वयेन 'भगवन् ! बहुवेलं संदिसावेमि बहुवेलं करेमि इति भणति, बहुवेलासंभवीनि चोच्छ्वासादीनि कार्याणि बहुवेल इत्युच्यन्ते । ततश्च चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते, श्राद्धस्तु 'अड्डाइज्जेस' इत्यादि च पठति । इति रात्रिकप्रतिक्रमणविधिः । अथ पाक्षिकादिप्रतिक्रमणविधिः, तानि च दैवसिकरात्रिकाभ्यां शुद्धौ सत्यामपि सूक्ष्मवादरातिचारजातस्य विशेषेण शोधनार्थं युक्तान्येव, यतः - "जह गेहं पइदिवसंपि सोहिअं तहवि पक्खसंधीसुं । सोहिज्जइ सविसेसं, एवं इहयंपि नायव्वं ॥ १ ॥" अत्र पाक्षिके पूर्ववदिवसप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, ततः क्षमाश्रमणपूर्व 'देवसिअं आलोइअ पडिकंता इच्छाकारेण संदिसह भगवन् ! पाखी मुहपत्ती पडिलेहूं' इत्युक्त्वा तां कार्यं च प्रति लिख्य वन्दनके दत्त्वा सम्बुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं
For Private & Personal Use Only
संग्रह.
॥ २१६ ॥
jainelibrary.org