SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ योत्सर्गे च सावधानीभूतत्वात् सम्यग् स्यादिति तत्र निशातिचारचिन्तनमिति हाई, यत उक्तं समयविद्भिः-10 "निद्दामत्तो न सरइ, अइआरे कायघट्टणान्नोऽन्नं । किइकरणे दोसा वा, गोसाई तिनि उस्सग्गा ॥१॥” इति ।। ततः पूर्ववन्मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनादिविधिः प्रतिक्रमणसूत्रानन्तरकायोत्सर्ग यावत् ज्ञेयः, पूर्व चारिवाद्याचाराणां प्रत्येकं शुद्धये पृथक् कायोत्सर्गाणां कृतत्वेन साम्प्रतं तेषां समुदितानां प्रतिक्रमणेनाप्यशुद्धानां शोधनायायं कायोत्सर्गः सम्भाव्यते । अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकं तपश्चिन्तयति, हे जीव ! श्री वीरेण पाण्मासिकमुत्कृष्टं तपः कृतं, तत् त्वं कर्तुं शक्रोषि? नवेत्यादि, न शक्नोमि, एवं| दित्रिचतुःपञ्चदिनैरूनं पाण्मासिकं कर्तुं शक्नोषि? न शक्नोमि, तर्हि षट्सप्ताष्टनवदशदिनोनं पाण्मासिक कत्तुं शक्नोषि? एवं एकादशतः पञ्चदिनवृद्ध्या क्रमेणैकोनत्रिंशद्दिनानि यावचिन्तयति, एवं पञ्चमे चतुर्थे तृतीये द्वितीये मासेऽपि, प्रथमे तु रे जीव! त्वमेकमासिकं कर्तुं शक्नोषि? न शक्नोमि, ततः एकदिनोनं कर्तुं शक्नोषि? न शक्नोमि, एवं यावत्रयोदशदिनोनं कत्तुं शक्नोषि? न शक्रोमि, तर्हि चतुत्रिंशत्तमं कर्तुं शक्नोषि? न शक्नोमि, द्वात्रिंशत्तमं त्रिंशत्तमं अष्टाविंशतितमं षड्विंशतितमं चतुर्विंशतितमं द्वाविंशतितमं विंशतितमं अष्टादशं षोडशं चतुर्दशं द्वादशं दशमं षष्ठं चतुर्थ कर्तुं शक्नोषीत्यादि विचिन्त्य यत्तपः कृतं स्यात्तत्र करणेच्छायां करिष्ये इति वक्ति, अन्यथा तु शक्नोमि, परं नाद्य मनो वर्तते इति, एवमाचाम्लनिर्विकृतिकैकाशनादिषु यत्र मनो भवतीति तन्मनसि निधाय पारयित्वा च कायोत्सर्ग मुखपोतिकाप्रति Jain Education For Private Personel Use Only Hrjainelibrary.org.
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy