________________
अ. सं. ३६
Jain Education Internation
१२ अहिगारपढमपया ॥ ४ ॥ इति चैत्यवन्दनाभाष्यगाथोक्तेर्द्वादशभिरधिकारैः पूर्वोक्तविधिना देवान् वन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दते । लोकेऽपि हि राज्ञः प्रधानादीनां च बहुमानादिना खसमीहितकार्यसिद्धिर्भवति, अत्र राजस्थानीयाः श्रीतीर्थकराः, प्रधानादिस्थानीया आचार्यादय इति । श्राद्धस्तु तदनु 'समस्तश्रावको वांदु' इति भणति । ततः चारित्राचारादिशुद्धिं विधित्सुस्तत्सिद्धिमभिलषमाणचारित्राचाराधाराधकान् सम्यक् प्रणिपत्यातीचारभारभारित इवावनत काययष्टिर्भूनिहितशिराः सकलातिचारबीजं "सव्वस्सवि देवसिअ" इत्यादिसूत्रं भणित्वा मिथ्यादुष्कृतं दत्ते, इदं च सकलप्रतिक्रमणबीजभूतं ज्ञेयं, अन्यत्रापि च ग्रन्थादौ आदौ बीजस्य दर्शनात् । तत उत्थाय ज्ञानादिषु चारित्रं गरिष्ठं, तस्य मुक्तेरनन्तरकारणत्वात्, ज्ञानादेस्तु परम्पराकारणत्वात्, तथाहि सर्वात्मना चारित्रं हि शैलेश्यवस्थायामेव, तदनन्तरं चावश्यं मुक्तिः, ज्ञानं तु सर्वात्मना क्षीणमोहानन्तरं नच तदनन्तरमवश्यं मुक्तिः, जघन्यतोऽप्यन्तराले प्रत्येकमान्तर्मुहूर्तिकगुणस्थानकद्वयभावात्, तथा "जम्हा दंसणनाणा, संपुण्णफलं न दिति पत्तेयं । चारितजुया दिंति अ, विसिस्सए तेण चारितं ॥ १ ॥" तथा "सम्मत्तं अचरित्तस्स, हुज्ज भयणाइ निअ मसो णत्थि । जो पुण चरित्तजुत्तो, तस्स उ निअमेण संमत्तं ॥ २ ॥” तथा “गोत्रवृद्धैर्नरो नैव, सद्गुणोऽपि प्रणम्यते । अलङ्कृतनृपश्रीस्तु, वन्द्यते नतमौलिभिः ॥ ३ ॥ एवं न केवलज्ञानी, गृहस्थो नम्यते जनैः । गृही तचारुचारित्रः, शत्रैरपि स पूज्यते ॥ २ ॥ अतो दिशन्ति चारित्रं, केवलज्ञानतोऽधिकम् । तस्मिन् लब्धेऽपि
For Private & Personal Use Only
Jainelibrary.org