________________
Jain Education Inte
॥ १ ॥' इत्यादिविशेषावश्यकवचनप्रमाणात् यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता साधुमाश्रित्य स्थापनाचार्यस्थापनमुक्तं न श्रावकमाश्रित्येति कुतस्तेषां स्थापनाधिकार इति चेन्न, भदन्तशब्द भणतां तेषां स्थापनाचार्यस्थापनं युक्तमेव, अन्यथा भदन्तशब्दपठनं व्यर्थमेव स्यात्, अथ च | स्थापनाचार्यस्थापनमन्तरेणापि वन्दनाद्यनुष्ठानं विधीयते, तदा बन्दनकनिर्युक्तौ 'आयप्यमाणमित्तो, चउद्दिसिं होइ उग्गहो गुरुणो' इत्यक्षरैर्गुरोरवग्रहप्रमाणमुक्तं तत्कथं घटते ?, नहि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानं स्याद्, ग्रामाभावे तत्सीमाव्यवस्थावत्, तथा तत्रैव यदपरमुक्तं - ' चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं इत्यादि, तदपि न युक्तं भवेद्, यतश्चतुः शीर्षत्वं बन्दनकदातृतत्प्रतीच्छकसद्भावे सति भवति, नतु साक्षादुर्वभावे स्थापनाचार्यस्यानभ्युपगमे च एवं द्विप्रवेशैकनिष्क्रमणे अपि दूरापास्ते एव, अवधि - भूतगुरोः स्थापनाचार्यस्य वाऽभावात् न च हृदयमध्य एव गुरुरस्तीति वाच्यं तथा सति प्रवेशनिर्ग मयोरविषयत्वादिति, तस्मात् 'अक्खे बराडए वा, कट्ठे पुत्थे अ चित्तकम्मे अ । सन्भावमसन्भावं, गुरुठवणा इत्तरावकहं' इतिवचनप्रमाणाच्च साधुश्राषकाणां स्थापनाचार्यस्थापनं समानमेवेति व्यवस्थितं । पञ्चाचाराश्च ज्ञानदर्शनचारित्रतपोवीर्याचारा इति । तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १, चतुर्विंशतिस्तवेन दर्शनाचारस्य २, वन्दनकेन ज्ञानाद्याचाराणां ३, प्रतिक्रमणेन तेषामतिचारापनयनरूपा ४, प्रतिक्रमणेनाशुद्धानां तदतिचाराणां कायोत्सर्गेण ५, तपभचारस्य प्रत्याख्यानेन ६, वीर्याचारस्यैभिः सर्वैरपीति,
For Private & Personal Use Only
jainelibrary.org