________________
धर्म
संग्रह.
स्थानकोचितक्रियापरिपालनानुस्मारणखभावस्य चोपदेशो दातव्य इति।तथा “फलप्ररूपणेति” अस्याचारस्य
सम्यक्परिपालितस्य सतः फलमिहैव तावदुपप्लवहासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च, परत्र च सुगतिजन्मो॥२०॥
त्तमस्थानलाभः, परम्परया निर्वाणावाप्तिश्चेति यत्कार्य तस्य प्ररूपणा प्रज्ञापना विधेयेति । अत्रैव विशेषमाह-"देवर्द्धिवर्णनमिति" देवानामृद्धर्विभूतिरूपादिलक्षणाया वर्णनं प्रकाशनम् , यथा-तत्रोत्तमा रूपसम्पत,
सत्स्थितिप्रभावसुखद्युतिलेश्यायोगो, विशुद्धेन्द्रियावधित्वं, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवह 15| इत्यादि वक्ष्यमाणमेवा तथा “सुकुलागमनोक्तिरिति” देवस्थानाच्युतावपि विशिष्टे देशे, विशिष्ट काले, निष्क
लङ्केऽन्वये उद्ग्रेसदाचारेणाख्यायिकापुरुषयुक्तेऽनेकमनोरथावपूरकमत्यन्तनिरवद्यं जन्मेत्यादिवक्ष्यमाणलक्षणेव(उक्तिः)।तथा "कल्याणपरम्पराऽऽख्यानमिति” ततःसुकुलागमनादुत्तरंकल्याणपरम्परायास्तत्र सुन्दरं रूपम् , आलयो लक्षणानां रहितमामयेनेत्यादिरूपाया अत्रैव धर्मफलाध्याये वक्ष्यमाणाया आख्यानं निवेदनं कार्यमिति।तथा“असदाचारगति" असदाचारः सदाचारविलक्षणो हिंसानृतादिर्दशविधः पापहेतुभेदरूपः। यथोक्तम्-"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः॥१॥” तस्य गोडसदाचारगर्दा, यथा-"न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः॥१॥ द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥२॥ वरंज्वालाऽऽकुले क्षिप्तो, देहिनात्मा हुताशने।नतु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन ॥३॥” इति तत्त्वाश्र
Join Education in
For Private & Personel Use Only
Codjainelibrary.org