SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ यस्यासी अमूढाप्रशंसनेन तवृद्धिकादिभिस्तीर्थख्या ACROSOORAMANSOOCALCROSOSORS दृष्टिः सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः । अधुना गुणप्रधान:उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनं, वात्सल्यं समानधार्मिकजनोपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति । गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिद्भेदख्यापनार्थ, एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यताऽऽपत्तिरिति । चारित्राचारोऽष्टधा पञ्चसमितित्रिगुप्तिभेदात्तत्खरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविधः, बाह्याभ्यन्तरतपाषद्वयभेदात्, तत्र 'अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः। कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम्।। प्रायश्चित्तं ध्यानं, वैयावृत्त्यविनयावथोत्सर्गः।खाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ।।' वीर्याचारः पुनरनिङतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तषत्रिंशद्विधे ज्ञानदर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणं, प्रतिपत्तौ च यथावलं पालनेति । तथा "निरीहशक्यपालनेति" निरीहेणैहिकपारलौकिकफलेषु राज्यदेवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचारादेर्विहितमिदमितिबुद्ध्या पालना कार्या इति च कथ्यत इति, तथा "अशक्ये भावप्रतिपत्तिरिति” 'अशक्ये ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपिधृतिसंहननकालबलादिवैकल्याद्, "भावप्रतिपत्तिः' भावेनान्तःकरणेन प्रतिपत्तिरनुबन्धान पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आर्तध्यानत्वादिति। तथा “पालनोपायोपदेश इति” एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्याधिकगुणतुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुण Jain Education in For Private & Personel Use Only H ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy