________________
धर्म
संग्रह.
निष्काशित-निर्विचिकित्सा-ऽमूढदृष्टि-उपबृंहा-स्थिरीकरण-वात्सल्य-तीर्थप्रभावनाभेदादष्टधैव । तत्र 'नि:शङ्कित इति शङ्कनं शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्किता, देशसर्वशङ्कारहित इत्यर्थः। तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात् सकलमेवेदं
परिकल्पितं भविष्यतीति । न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवादिस्तित्वादयः, अहेतुग्राह्या भव्यत्वादयोऽस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि
बालादिसंधारण इति उक्तंच--"बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्वान्तः प्राकृतः स्मृतः॥१॥" दृष्टेष्टाविरुद्धत्वाच नायं परिकल्पनागोचरः । ततश्च निःशङ्कितो जीव एवाहच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते । अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इत्येवं शेषपदेष्वपि भावना कार्या । तथा निष्काशितो देशसर्वकाङ्क्षारहितः । तत्र देशकाङ्क्षा एकं दर्शनं काटते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति । विचिकित्सा मतिविभ्रमो, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः । साध्वेवं जिनदर्शनं, किन्तु प्रवृत्तस्यापि सतो मभास्मात्फलं भविष्यति वा न वा?, कृषिवलादिक्रियासूभयथाप्युपल-ग ब्धेरितिकुविकल्परहितः, नह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति संजातनिश्चय इत्यर्थः, यहा निर्विजुगुप्सो जुगुप्सारहितः। तथा अमूढदृष्टिः, बालतपखितपोविद्याद्यतिशयैर्न मूढा खभावान्न चलिता
Jain Education
I
D
For Private & Personel Use Only
jainelibrary.org