________________
ASSACCURRORSCOCCASEARS
तत्र काल इति यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्मिन्नेव तस्य खाध्यायः कर्त्तव्यो नान्यदा, तीर्थ-15 करवचनाद्, दृष्टं च कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयो ह्यभ्युत्थानपाद्धावनादिः, अविनयगृहीतं हि तफलं भवति । तथा श्रुतग्रहणोद्यतेन गुरोबहुमानः कार्यः; बहुमानो नामाऽऽन्तरोभावप्रतिबन्धः, एतस्मिन् सति अक्षेपेणाविक(फ)लं श्रुतं भवति।अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति, एकस्य विनयो न बहुमानः, अपरस्य बहुमानो न विनयः, अन्यस्य विनयोऽपि बहुमानोऽपि, अन्यतरस्य न विनयो नापि बहुमान इति । तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम् , उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य,13 तत्पूर्व श्रुतग्रहणस्यैव फलवत्त्वात् । 'अनिलव इति' गृहीतश्रुतेनानिहवः कार्यः, यद्यत्सकाशेऽधीतं तत्र स एव कथनीयो नान्यश्चित्तकालुष्याऽऽपत्तेरिति। तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा “धम्मो मंगलमुक्किट" इति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस'मित्याह । अर्थभेदस्तु यथा “आवंतिकेआवंति लोगंसि विपरामुसंति"इत्यत्राचारसूत्रे यावन्तःकेचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीत्यर्थाभिधाने अवन्तिजनपदे केया(०) रज्जुस्तां(वन्तो) लोकः परामृशति कूपे इत्याह।उभयभेदस्तु दयोरपि याथात्म्योपमई यथा-धर्मो मंगलमुत्कृष्टः, अहिंसा पर्वतमस्तके इत्यादि । दोषश्चात्र व्यञ्जनभेदादर्थभेदः, तद्भेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः, तदभावे च निरर्थका दीक्षेति । दर्शनाचारोऽपि निःशङ्कित
ECRECECRECACAR COALOCALGANG
धसं०४M
nin Education Intel
For Private & Personal Use Only
Rjainelibrary.org