SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ + संग्रह ॥१८॥ मोहान्धकारेऽस्मिन् , शास्त्रालोकः प्रवर्तकः ॥४॥'शास्त्रयत्नः' इति शास्त्रे यत्नो यस्येति समासः “पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥५॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥६॥ यः श्राद्धो मन्यते मान्यानहंकारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा॥७॥ यस्य वनादरः शास्त्र, तस्य श्रडादयो गुणाः । उन्मत्तगुणतुल्यत्वात्, न प्रशंसास्पदं सताम् ॥ ८॥ मलिनस्य यथाऽत्यन्तम्, जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः॥९॥ शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या, तत्मास्यासन्नभावतः॥१०॥'अत्रैव' इति मुक्तावेव 'इयं' इति शास्त्रभक्तिः, 'तत्मास्यासन्नभावतः' इति मुक्तिप्राप्तिसमीपभावादिति । तथा “प्रयोग आक्षेपण्या इति” 'प्रयोगों' व्यापारणं धर्मकथाकाले, आक्षिप्यन्ते आकृष्यन्ते मोहात्तत्त्वं प्रति भव्यप्राणिनोऽनयेति आक्षेपणी तस्याः क-2 थायाः, सा चाचारव्यवहारप्रज्ञप्तिदृष्टिवादभेदाचतुर्डा, तत्राचारो लोचालानादिः सुष्टुक्रियारूपो, व्यवहारः कथंचिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य मधुरवचनैः प्रज्ञापनं, दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति । तथा "ज्ञानाद्याचारकथनमिति" ज्ञानस्य श्रुतलक्षणस्य आचारो ज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं प्रज्ञापनमिति समासः। तत्र ज्ञानाचारोऽष्टधा कालविनयबहमानोपधानानिहवव्यञ्जनार्थतदुभयभेदलक्षणः, ॥१८॥ Jain Education in For Private & Personel Use Only IN jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy