________________
+
संग्रह
॥१८॥
मोहान्धकारेऽस्मिन् , शास्त्रालोकः प्रवर्तकः ॥४॥'शास्त्रयत्नः' इति शास्त्रे यत्नो यस्येति समासः “पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥५॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥६॥ यः श्राद्धो मन्यते मान्यानहंकारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा॥७॥ यस्य वनादरः शास्त्र, तस्य श्रडादयो गुणाः । उन्मत्तगुणतुल्यत्वात्, न प्रशंसास्पदं सताम् ॥ ८॥ मलिनस्य यथाऽत्यन्तम्, जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः॥९॥ शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या, तत्मास्यासन्नभावतः॥१०॥'अत्रैव' इति मुक्तावेव 'इयं' इति शास्त्रभक्तिः, 'तत्मास्यासन्नभावतः' इति मुक्तिप्राप्तिसमीपभावादिति । तथा “प्रयोग आक्षेपण्या इति” 'प्रयोगों' व्यापारणं धर्मकथाकाले, आक्षिप्यन्ते आकृष्यन्ते मोहात्तत्त्वं प्रति भव्यप्राणिनोऽनयेति आक्षेपणी तस्याः क-2 थायाः, सा चाचारव्यवहारप्रज्ञप्तिदृष्टिवादभेदाचतुर्डा, तत्राचारो लोचालानादिः सुष्टुक्रियारूपो, व्यवहारः कथंचिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य मधुरवचनैः प्रज्ञापनं, दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति । तथा "ज्ञानाद्याचारकथनमिति" ज्ञानस्य श्रुतलक्षणस्य आचारो ज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं प्रज्ञापनमिति समासः। तत्र ज्ञानाचारोऽष्टधा कालविनयबहमानोपधानानिहवव्यञ्जनार्थतदुभयभेदलक्षणः,
॥१८॥
Jain Education in
For Private & Personel Use Only
IN
jainelibrary.org