________________
Jain Education
सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ।" इति । तथा " अबोधेऽप्यनिन्देति” अबोधेऽप्यनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामपि, अनिन्दा अहो मन्दबुद्धिर्भवान्य इत्थमाचक्षाणेष्वप्यस्मासु न बुध्यते वस्तुतत्त्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चित्सुरपि सन् दूरं विरज्यत इति । तर्हि किं कर्त्तव्यमित्याह - " शुश्रूषाभावकरणमिति ” धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा, तल्लक्षणो भावः परिणामस्तस्य करणं निवर्त्तनं, श्रोतुस्तैस्तैर्वचनैरिति । शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युतानर्थसम्भवः पठ्यते च - ' स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति' "भूयो भूय उपदेश इति " भूयो भूयः पुनः पुनरुपदिश्यत इत्युपदेशः उपदेष्टुमिष्टः वस्तुविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियते दृढसन्निपातरोगिणां पुनः पुनः क्रिया तिक्तादिकाथपानोपचार इति । तथा " बोधे प्रज्ञोपवर्णनमिति " बोधे सकृदुपदेशेन भूयो भूय उपदेशेन वोपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं वुद्धिप्रशंसनं यथा - नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति । तथा " तनावतार इति " तत्रे आग अवतारः प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेयः आगमबहुमानञ्चैवमुत्पादनीयः - परलोकविधौ शास्त्रात्प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रडाधनसमन्वितः ॥ १ ॥ उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥ २ ॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात्परः ॥ ३ ॥ तस्मात् सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते । लोके
For Private & Personal Use Only
w.jainelibrary.org