________________
धर्म
॥ १७ ॥
इत्यादि । कथं सा कार्येत्याह - ' यथाबोधं ' इति बोधानतिक्रमेण, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसंभवात्, नह्येडान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत इति । मुनिना कीदृशेन ? 'महात्मना ' तदनुग्रहैकपरायणतया महान् आत्मा यस्य स तेन । इति संक्षेपतो धर्मदेशनाप्रदानविधिः । विस्तरतस्तु धर्मबिन्दायुक्तः, सचायम् - " इदानीं तद्विधिमनुवर्त्तयिष्याम इति " ' इदानीं ' संप्रति 'तद्विधिं ' सद्धर्मदेशनाक्रमं 'वर्णयिष्यामः ' निरूपयिष्यामो वयमिति, तद्यथा - " तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति ” तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृतिः खरूपं गुणवत्सङ्गलोकप्रियत्वादिका देवताधिमुक्तिश्च बुद्धकपिलादिदेवताविशेषभक्तिस्तयोर्ज्ञानं प्रथमतो देशकेन कार्यम्, ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढः पूर्व व्युद्राहितश्च चेन्न भवति तदा कुशलैस्तथा तथानुवर्त्य लोकोत्तरगुणपात्रतामानीयते । विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमेव मार्गेऽवतारयितुं शक्य इति । तथा " साधारणगुणप्रशंसेति ” साधारणानां लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनार्हस्याग्रतो विधेया, यथा - " प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः, श्रुते चासंतोषः कथमनभिजाते निवसति ॥ १ ॥ तथा " सम्यक्तदधिकाख्यानमिति ” सम्यगविपरीतरूपतया तेभ्यः साधारणगुणेभ्योऽधिका विशेषवन्तो ये गुणाः तेषामाख्यानं कथनं यथा - "पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् | अहिंसा
Jain Education International
For Private & Personal Use Only
संग्रह
॥ १७ ॥
www.jainelibrary.org