________________
तत्त्वमार्गे, बुधस्तु मार्गानुसारी यः।१।" इति । इत्थं च तद्भावज्ञानपूर्वकं तद्नुसारेण देशना विधेयेति |संपन्नम् । तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशना यथा-"बाह्यचरणप्रधाना, कर्तव्या देशनेह बालस्य । खयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥२॥ सम्यग्लोचविधानं, ह्यनुपानकत्वमथ धरा शय्या । प्रहरदयं रजन्यां, वापः शीतोष्णसहनं च ॥३॥ षष्ठाष्टमादिरूपं, चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसंधारणं च तच्छु-हता चैव । ४। गुर्वी पिण्डविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां संत्यागस्तथैकसिक्थादिपारणकम् ॥ ५ ॥ अनियतविहारकल्पः, कायोत्सर्गादिकरणमनिशं च । इत्यादि बाह्यमुच्चैः, कथनीयं भवति बालस्य ॥ ६॥” इदानीं मध्यमबुद्धेर्देशनाविधिर्यथा-"मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगैहितदं खलु साधु सद्वृत्तम् ।७। अष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य । नियमेन न मोक्तव्याः, परमं कल्याणमिच्छद्भिः॥८॥ एतत्स-1 |चिवस्य सदा,साधोर्नियमान्न भवभयं भवति। भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम् ॥९॥ गुरुपारतन्त्र्यमेव च, तहहुमानात्सदाशयानुगतम् । परमगुरुत्वाप्तेरिह, बीजं तस्माच मोक्ष इति । १० । इत्यादिसाधु-T वृत्तं, मध्यमबुद्धः सदा समाख्येयम्"। अथ बुधोपदेशविधिर्यथा-"आगमतत्त्वं तु परं, बुधस्य भावप्रधानं 51 तु । ११ । वचनाऽऽराधनया खलु, धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं, सर्वखं चैतदेवास्य । १२॥ यस्मात्प्रवर्तकं भुवि, निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् । १३ ।”
युद्धम् । आय॥” इदानी मारकल्पः, कायात्रा द्रव्या
Jain Education in
For Private & Personel Use Only
jainelibrary.org