________________
धर्म
संग्रह
MAHRT इति धर्मदेशनाह
बालादिभाव सज्ञान,
वातहिंसाप्रवन्धे, देव
ॐॐॐॐक
इतिललितविस्तरावचनानुसारेण यद्यनाभोगवान् मिथ्यादृष्टिरपि मिथ्यात्वमन्दतोद्भूतमाध्यस्थ्यतत्त्वजिज्ञासादिगुणयोगान्मार्गमेवानुसरति, तर्हि तद्विशेषगुणयोगादनाभिग्रहिके तु सुतरां धर्मदेशनायोग्यत्व|मितिभावः । इति धर्मदेशनाई उक्तः॥१८॥ अथ तत्प्रदानविधिमाह
सा च संवेगकृत्कार्या, शुश्रूषोर्मुनिना परा । बालादिभावं संज्ञाय, यथाबोधं महात्मना ॥ १९ ॥ __ 'सा च' देशना 'संवेगकृत्' संवेगकारिणी संवेगलक्षणं चेदम्-तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः।१। इति 'मुनिना' गीता
र्थेन साधुनाऽन्यस्य धर्मोपदेशेऽनधिकारित्वात्, यथोक्तं निशीथे-"संसारदुक्खमहणो, विबोहणो भविभयपुंडरीयाणं । धम्मो जिणपण्णत्तो, पकप्पजइणा कहेअव्वोत्ति” 'प्रकल्पयतिना' इति अधीतनिशीथाध्य
यनेन । 'परा' शेषतीर्थान्तरीयधर्मातिशायितया प्रकृष्टा 'कार्या' प्रज्ञापनीया, कीदृशस्य पुरतः सा कार्येत्याह-शुश्रूषोः' श्रोतुमुपस्थितस्य, मुनिना च किंज्ञानपूर्वमाख्येयेत्याह-'बालादिभावमित्यादि, बालादीनां त्रयाणां धर्मपरीक्षकाणां आदिपदेन मध्यमवुद्धिबुधयोग्रहणात्, भावं परिणामविशेष स्वरूपं वा 'संज्ञाय' सम्यक् अवैपरीत्येन ज्ञात्वाऽवबुध्य । तस्य त्रिविधस्य धर्मपरीक्षकस्य रुचिरूपलक्षणमिदं षोडशकप्रकरणोक्तम्-“बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥१॥ तेषामेवाचाररूपलक्षणं चेदम्-“बालो ह्यसदारम्भो, मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह
॥१६॥
Jain Education indane
For Private & Personal Use Only
Criainelibrary.org