SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ मध्याहं यावत्, उक्तमपि-"उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिमहूं ॥१॥" पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात्, तथा च 'अट्ठमछट्टचउत्थं, संवच्छरचाउमासपक्खीमुं' इत्याद्यागमविरोधः। तथा यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी, तथाहि-'अट्ठमीचउद्दसीसु उववासकरणमिति' पाक्षिकचूर्णी [तथा 'सागरचंदो कमलामेलावि सामिपासे धम्म सोऊण गहिआणुब्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसुं सुण्णघरेसु मसाणेसु एगराइअं पडिमं ठाई' इति । 'सो अहमिचउद्दसीसु उववासं करेई' इति । 'अट्ठमिचउद्दसीसु अरहंता साहुणो अ वंदेअव्वा' इति चावश्यकचूर्णौ । तथा 'संते बलवीरिअपुरिसक्कार- परक्कमे अट्टमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठमे न करिजा पच्छित्तं' इति महानिशीथ १ अध्ययने । इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा 'चउत्थछट्ठमकरणे अट्ठमिपक्खचउमासवरिसेसु' इति व्यवहारभाष्यषष्ठोद्देशके च 'पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेअव्वं' इत्यादिव्याख्यायां वृत्तौ चूर्णौ च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु कचिदुभयोपादानमपि स्यादेव । चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशीचतुर्योः क्रियेते, प्रामाणिकं चैतत्, For Private Personal Use Only Mainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy