________________
धर्म
संग्रह.
॥२०८॥
पशमिकाद्भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमाः स्मृताः(स्मृतः)॥१॥ प्रति प्रति क्रमणं वा प्रतिक्रमणं, उक्तं च-"प्रति प्रति वर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥” तच्चातीतानागतवर्तमानकालत्रयविषयं, नन्वतीतविषयमेव प्रतिक्रमणं, यत उक्तं-"अई पडिकमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामीति' तत्कथं त्रिकालविषयता ?, उच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, "मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । |कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥"। ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणं, प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतविषयमपि प्रत्याख्यानद्वारेणेति न कश्चिद्दोषः।
इत्थं त्रिकालविषयं प्रतीपक्रमणादि प्रतिक्रमणमिति सिद्धं । एतच्च व्युत्पत्तिमात्रं, रूढिश्च कचिदावश्यक8/विशेषे, कचिच्च षडावश्यकक्रियायामित्युक्तमेव । इत्थमेव च वक्ष्यमाणः प्रतिक्रमणविधिर्घटते । तच प्रतिदक्रमणं दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ भेदात्पश्चविधं, तत्र दिवसस्यान्ते
दैवसिकमेतस्य कालस्तूत्सर्गेणैवमुक्त:-"अद्धनिबुडे बिंबे, सुत्तं कडंति गीअत्था । इअ वयणपमाणेणं, देवसिआवस्सए कालो॥१॥” रात्रेरन्ते रात्रिकं, तस्य चैवं काल:-"आवस्सयस्स समए, निद्दामुदं चयंति
- आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं मूरो ॥१॥" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ तु-"मध्याह्लादारभ्या रात्रं यावदि”त्युक्तं । रात्रिकमर्द्धरात्रादारभ्य ।
॥२०
॥
Jain Education
a
l
For Private Personel Use Only
Rajainelibrary.org