________________
Jain Education Int
नादवग पुनरपि यथाविधि जिनं पूजयति [सा च दीपधूपरूपाऽवसेयेति भावः ] । तथा प्रतिक्रमणस्य - सामायिकं १ चतुर्विंशतिस्तवो २ वन्दनकं ३ प्रतिक्रमणं ४ कायोत्सर्गः ५ प्रत्याख्यानं ६ चेति षड्विधावश्यकक्रि| यालक्षणस्य कारिता-करणं, विशेषतो गृहिधर्म इति सम्बन्धः । अयं भावः - सन्ध्यायां जिनपूजनानन्तरं श्रावकः साधुपार्श्वे पोषधशालादौ वा गत्वा प्रतिक्रमणं करोति, प्रतिक्रमणशब्दश्वावश्यकविशेषवाच्यपि अत्र सामान्येन सामायिकादिषडिधावश्यकक्रियायां रूढः, अध्ययनविशेषवाचिनोऽपि प्रतिक्रमणशब्दस्य नोआगमतो भावनिक्षेपमपेक्ष्य षडावश्यकरूपज्ञानक्रियासमुदायप्रवृत्तेरविरोधात् क्रियारूप एकदेशे | आगमस्याभावान्नोआगमत्वं, नोशब्दस्य देशनिषेधार्थत्वात्, उक्तं च- “किरिआऽऽगमो ण होइ, तस्स णिसेधमि नोसहोत्ति” तत्र सामायिकम् - आर्त्तराद्र्ध्यान परिहारेण धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समता, तच्च पूर्वमुक्तं, चतुर्विंशतिस्तवः - चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्त्तनपूर्वकं गुणकीर्त्तनं, तस्य च कायोत्सर्गे | मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः, अयमपि पूर्वमुक्तः । वन्दनं- बन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशद्दोषरहितं नमस्करणं, तदप्युक्तमेव । प्रतिक्रमणं - प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, 'क्रमू पादविक्षेपे' अस्य प्रतिपूर्वस्य भावे ल्युडन्तस्य प्रतीपं क्रमणं, अयमर्थः-शुभयोगेभ्योऽशुभयोगान्तरं कान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणं प्रतिक्रमणं, यदाह – “स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १ ॥” प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाह - "क्षायोप
For Private & Personal Use Only
jainelibrary.org