________________
धर्म
संग्रह.
॥२०५॥
स्तदा को विधिः?, अन्रोच्यते, सन्तेत्ति सत्-विद्यमानं वस्त्रादि, इतरच्च-अविद्यमानं वस्त्रायेव, तदसत्त्वेऽपि लब्धियुतश्च-वस्त्रादिलाभयोग्यतायुतः, इतरश्च-तद्रिकल इति बन्दः, ते आदिर्येषां ते तथा, आदिशब्दात् सपक्षसत्त्वेन संभाव्यमानवस्त्रादिलाभतदितरादिग्रहः । एतानि च सदादिपदानि लुप्तभावप्रत्ययानि द्रष्टव्यानि, ततश्च ते भावाश्च-साधूनामवस्थाः सदितरलब्धियुतेतरादिभावास्तेषु तुल्येषु-समेषु सत्सु, किमित्याह-भवति-वर्त्तते तुच्छस्येति प्रक्रमः, दानं-वस्त्रादिवितरणं, [दिगादिभेदे] दिगादिभिर्भेदे सति दिगाद्यपेक्षयेत्यर्थः। तथाहि-द्वयोः साध्वोः सहस्त्रत्वे सति यो दिशाऽऽसन्नस्तस्मै देयम्, एवमसहस्त्रत्वे लब्धियुतत्वे तदितरत्वे चेति । अथ तुल्येऽपि भावे दिशमतिक्रम्य ददतः किं स्यादित्याह-तया-दिशाऽद्तः-अप्रयच्छत आज्ञाभङ्गानवस्थामिथ्यात्वलक्षणा दोषा भवन्तीति गाथार्थः । आभवद्व्यवहारापेक्षया च दिग् गृहस्थस्य प्रविव्रजिषोरुत्प्रव्रजितस्य वाऽऽगमे दृश्यते, नान्यस्य, यत इयं कल्पव्यवहारोक्ता दिग्व्यवस्था-यः प्रव्रजितु| कामः सामायिकादिपाठप्रवृत्तः स त्रीणि वर्षाणिवत् प्रतिबोधकाचार्यस्यैव सत्को भवति, यदाह-"सा
माइआइए खलु, धम्मायरिअस्स तिण्णि जा वासा । नियमेण होइ सहो, उजमओ तदुवरि भयणा H॥१॥” यस्तु निवादिर्भूत्वा पुनः प्रव्रजति, तस्य खेच्छया दिक, अत्यक्तसम्यक्त्वस्तूत्प्रव्रज्य यः प्रव्रजति
स त्रीणि वर्षाणि यावत्पूर्वाचार्यस्यैव, आह च-"परलिंगिनिण्हए वा, सम्मइंसणजढे उ उवसंते। तद्दिवसमेव इच्छा, सम्मत्तजुए समा तिपिण ॥१॥” उत्प्रवजितस्तु द्विधा-सारूपी गृहस्थश्च, तत्र सारूपी रजोहरण
55555555
॥२०५॥
lain Education Inter
For Private & Personel Use Only
www.jainelibrary.org